पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
सटीकलोचनोपेतध्वन्यालोके


रसनिर्वहङ्गकतानहृदयो यं च नात्यन्तं निर्वोढुमिच्छति । यथा-

कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं

नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः ।
भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं

धन्यो हन्यते एव निन्हुतिपरः प्रेयान्रुदत्या हसन् ॥
अत्र हि रूपकमाक्षिप्तमनिर्व्यूढं च परं रसपुष्टये ।

निर्वोढुमिष्टमपि यं यत्नादङ्गत्वेन प्रत्यवेक्षते यथा--

श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं


लोचनम्

 एवं ग्रहणत्यागौ सामर्थ्य 'नातिनिर्वहणैषिता' इति भागं व्याचष्टे-रसेति । चकारः समीक्षाप्रकारसमुच्चयार्थः। बाहुलतिकायाः बन्धनीयपाशत्वेन रूपणं यदि निर्वाहयेत् , दयिता व्याघवधूः वासगृहं कारागारपञ्जरादीति परमनौचित्यं स्यात् । सखीनां इति । भवत्योऽनवरतं ध्रुवते नायमेवं करोतीति तत्पश्यन्त्विदानीमिति भावः । स्खलन्ती कोपावेशेन कला मधुरा च गीर्यस्याः सा । कासौ गीरित्याह-भूयो नैवमित्येवंरूपा । एवमिति यदुक्तं तत्किमित्याह-दुश्चेष्टितं नखपदादि संसूच्य अङ्गुल्यादिनिर्देशेन । हन्यत एवेति । न तु संख्यादिकृतोऽनुनयोऽनुरुध्यते । यतो- ऽसौ हसनं निमित्तीकृत्य निह्नुतिपरः प्रियतमश्च तदीयं व्य लीकं का सोढुं समर्थेति ।

निर्वोढुमिति । निःशेषेण परिसमापयितुमित्यर्थः । श्यामासु सुगन्धिप्रियङ्गुल.

बालप्रिया

 एतद्विवृणोति लोचने-बाह्नित्यादि। इति निर्वाहयद्यदीति सम्बन्धः। दयिता- दीनां व्याधवधूत्वादिरूपणस्य कथनेन बाहुलतिकायाः पाशत्वरूपणं कविर्निर्वाहयेद्यदी- त्यर्थः। तदेति शेषः । परमनौचित्यं स्यादिति । तथा च रसभङ्गः स्यादिति भावः। न करोतीति ब्रुवत इत्यनेन सम्बन्धः । इति भाव इति । सखीनां पुरो नयने नायिकाभिप्राय इत्यर्थः । सखीनां पुरो नीत्वेत्यनेनोक्ताभिप्रायो गम्यत इत्यर्थः । दुश्चेष्टितमित्यस्य व्याख्यानम्-नखपदादीति । 'निर्देशेन संसूच्ये'त्यन्वयः । एव- कारार्थमाह-न त्वित्यादि । निह्रुतीत्यादिकमुक्तार्थे हेतुगर्भमित्याशयेन व्याचष्टे- यत इत्यादि । भावार्थमाह-तदीयमित्यादि । तदीयं प्रियतमसम्बन्धि । अतो हन्यत एवेति भावः । श्लोकोऽयममरुशतकस्थः ।

 'श्यामास्वित्यादिश्लोको मेघसन्देशस्थः । श्यामानां विशिष्योक्तौ बीजभूतमङ्गसा-