पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
सटीकलोचनोपेतध्वन्यालोके


रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥ १६ ॥
रसबन्धेष्वत्यादृतमनाः कविर्यमलङ्कारं तदङ्गतया विवक्षति । यथा-

चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।

करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्त्वान्वेषान्मधुकर हस्तास्त्वं खलु कृती ।।

 अत्र हि अमरस्वभावोक्तिरलङ्कारो रसानुगुणः ।


लोचनम्

 चलापाङ्गामिति । हे मधुकर, वयमेवंविधाभिलाषचाटुप्रवणा अपि तत्त्वान्वेषणा- द्वस्तुवृत्तेऽन्विष्यमाणे ह्रता आयासमात्रपात्रीभूता जाताः । त्वं खल्विति निपातेनाय. त्नसिद्धं तवैव चरितार्थत्वमिति शकुन्तला प्रत्यभिलाषिणो दुष्यन्तस्येयमुक्तिः । तथाहि- कथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषास्मदभिप्रायव्यञ्जकं रहोवचनमाकर्ण्यात् ,कथं नु हठादनिच्छन्त्या अपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमधिशेते तत्तवायत्नसिद्धम् । भ्रमरो हि नीलोत्पलधिया तदाशङ्काकरीं दृष्टिं पुनःपुनः स्पृशति । श्रवणावकाशपर्यन्तत्वाच्च नेत्रयोरुत्पलशङ्कानपगमात्तत्रैव दध्वन्यमान आस्ते। सहज- सौकुमार्यत्रासकातरायाश्च रतिनिधानभूतं विकसितारविन्दकुवलयामोदमधुरमधरं पिब- तीति भ्रमरस्वभावोक्तिरलङ्कारोऽङ्गतामेव प्रकृतरसस्योपगतः। अन्ये तु भ्रमरस्वभावे

बालप्रिया

त्यादि । चलापाङ्गामिति । श्लोकोऽयमस्माभिः शाकुन्तलव्याख्यायां सविस्तरं व्याख्यातः। वयमित्यनेन गम्यमर्थमाह-एवमित्यादि। एवंविधाः वक्ष्यमाणाः अभिलाषा येषां ते. । चाटौ चाटुवचने प्रवणास्तत्पराश्च । अयत्नेत्यादि व्यङ्गयार्थकथ. नम् । 'कथमित्यादि 'सिद्धमित्यन्तं दुष्यन्तवचनरूपेण निर्दिष्टम् । भ्रमरो हीत्या- दिव्याख्यातुर्वचनम् । तत्रैव श्रवणावकाशे एव । दध्वन्यमान इति । अतिशयेन ध्वनि कुर्वन्नित्यर्थः । 'भ्रमरस्वभावोक्तिरित्यादिग्रन्थमर्थतो व्याचष्टे-इति भ्रमर- स्वभावोक्तिरित्यादि । समासोक्तिव्यतिरेकयोः सत्वेऽप्यत्र स्वभावोक्तेः पुरस्फूर्तिक- त्वात्तन्मात्रमुक्तम् । प्रकृतरसस्येति। विप्रलम्भस्यैत्यर्थः । अङ्गतामेवोपगत इति ।


 १. 'चलापाङ्गं दृष्टः स्पृशसि' इत्यपि पाठ उपलभ्यते । सोऽपि साधीयान् । अत एव 'वेपथुमती इत्यस्य शकुन्तलया सहान्वयोऽपि स्वारसिकस्सम्पद्यते ।

 २. भ्रमरं प्रतीति शेषः । 'शकुन्तला प्रतीत्यस्य 'अभिलाषिण' इत्यनेनैवान्वयः । शकुन्तलाममिलषत इत्यर्थः।

 ३. अभिलाषविप्रलम्भस्येत्यर्थः