पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
द्वितीयोद्द्योतः


 'नाङ्गित्वेनेति न प्राधान्येन । कदाचिद्रसादितात्पर्येण विवक्षितोऽपि ह्यलङ्कारः कश्चिदङ्गित्वेन विवक्षितो दृश्यते । यथा-

चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोदामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥
अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्ये सत्यपीति ।


लोचनम्

उतिर्यस्येति भ्रमरस्वभावोक्तिरत्र रूपकव्यतिरेक इत्याहुः ।

 चक्राभिघात एव प्रसभाज्ञा अलङ्घनीयो नियोगस्तया यो राहुदयितानां रतो- त्सवं चुम्बनमात्रशेषं चकार । यत आलिङ्गनमुद्दामं प्रधानं येषु विलासेषु तैर्वन्ध्यः शून्योऽसौ रतोत्सवः । अत्राह कश्चित्-'पर्यायोक्तमेवात्र कवेः प्राधान्येन विवक्षितं, न तु रसादि । तत्कथमुच्यते रसादितात्पर्ये सत्यपोति । मैवम् ; वासुदेवप्रतापो ह्यत्र विवक्षितः । स चात्र चारुत्वहेतुतया न चक्रास्ति, अपि तु पर्यायोक्तमेव । यद्यपि चात्र काव्ये न काचिदोषाशङ्का, तथापि दृष्टान्तवदेतत्-यत्प्रकृतस्य पोषणीयस्य स्वरूपतिरस्कारकोऽङ्गभूतोऽप्यलङ्कारः सम्पद्यते । ततश्च क्वचिदनौचित्यमागच्छती.

बालप्रिया

तथाविधभ्रमरचेष्टायाः कामोद्दीपकत्वादिति भावः । रूपकेति । रूपकसहितो व्यति- रेको रूपकव्यतिरेकः, भ्रमरे नायकत्वारोपाद्रूपकं, चतुर्थपादे व्यतिरेकश्च । वस्तुतोऽत्र न रूपकं, किन्तु समासोक्तिरित्याशयेनास्वरससूचनाय अन्य इति । वृत्तौ 'अङ्गित्वे नेत्यस्य विवरणम्-'प्राधान्येने ति । 'कदाचिदिति । क्वचित्काव्ये इत्यर्थः ।

 लोचने-चक्रेत्यादि । चक्रेणाभिघातः अभितो हननं स एव । न तु रसा: दीति । 'प्राधान्येन विवक्षितमि'त्यस्यानुषङ्गः । रसादितात्पर्ये सत्यपीति वृत्ति- ग्रन्थानुवादः । प्रतिवक्ति-मैवमित्यादि । विवक्षित इति । प्राधान्येनेति शेषः । तथाचात्र वीररसे तात्पर्यमस्तीति भावः । विशेषमाह-स चेति । अपि तु पर्वा. योक्तमेवेति । चारुत्वहेतुतया चकास्तीत्यस्यानुषः । शङ्कते-यद्यपीत्यादि । न कदादिदोषाशङ्केति । चमत्कारविघातकं किमपि न शङ्कनीयमित्यर्थः । तथा च पर्यायोक्तस्य प्राधान्येऽपि न क्षतिरिति भावः । समाधत्ते-तथापीत्यादि । दृष्टान्तवदिति । दृष्टान्तेन तुल्यमित्यर्थः । एतदिति । चक्रेत्यायुदाहरणमित्यर्थः । भावं विवृणोति-यदित्यादि । 'अङ्गभूतोऽप्यलङ्कारः पोषणीयस्य प्रकृतस्य स्वरूपतिर- स्कारकस्सम्पद्यते यदि ति सम्बन्धः । क्वचिदिति शेषः । तत्र दृष्टान्तः प्रकृतश्लोक इति भावः । ततः किमत आह-ततश्चेति । क्वचिदनौचित्यमिति । अस्यो. दाहरणं "स्रस्तः स्रग्दामशोभा"मित्यादिकं काव्यानुशासनादावुक्तम् । उपष्टम्भकमाह-