पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
द्वितीयोद्योतः


इदानीं ध्वन्यात्मभूतस्य शृङ्गारस्य व्यञ्जकोऽलङ्कारवर्ग आख्यायते

ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥ १७ ॥

 अलङ्कारो हि बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्वहेतुरुच्यते। वाच्याल. ङ्कारवर्गश्च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित् , अलङ्काराणामनन्त. त्वात् ।

 स सर्वोऽपि यदि समीक्ष्य विनिवेश्यते तदलक्ष्यक्रमव्यङ्गयस्य ध्व- नेरङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते ।

एषा चास्य विनिवेशने समीक्षा-
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥ १८ ॥
निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।


लोचनम्

 इदानीमिति । हेयवर्ग उक्तः, उपादेयवर्गस्तु वक्तव्य इति भावः । व्यञ्जक इति । यश्च यथा चेत्यध्याहारः । यथार्थतामिति। चारुत्वहेतुतामित्यर्थः । उक्त इति । भामहादिभिरलङ्कार लक्षणकारैः । वक्ष्यते चेत्यत्र हेतुमाह-अलङ्काराणामनन्तत्वा- दिति । प्रतिभानन्त्यात् अन्यैरपि भाविभिः कैश्चिदित्यर्थः ॥ १७ ॥

 'समीक्ष्येति । समीक्ष्येत्यनेन शब्देन कारिकायामुक्तेति भावः । श्लोकपादेषु चतुर्षु श्लोकार्थे चाङ्गत्वसाधनमिदम् ; रूपकादिरिति प्रत्येकं सम्बन्धः । यमलङ्कारं तदङ्गतया विवक्षति नाङ्गित्वेन, यमवसरे गृह्णाति, यमवसरे त्यजति, यं नात्यन्तं निर्वोढुमिच्छति, यं यत्नादङ्गत्वेन प्रत्यवेक्षते, स एवमुपनिबध्यमानो रसाभिव्यक्तिहेतुर्भवतीति विततं महावाक्यम् । तन्महावाक्यमध्ये चोदाहरणावकाशमुदाहरणस्वरूपं तद्योजनं तत्समर्थनं च निरूपयितुं ग्रन्थान्तरमिति वृत्तिग्रन्थस्य सम्बन्धः ।

बालप्रिया

 यश्चेति । योऽलङ्कारो यथा व्यञ्जकः, तथा आख्यायत इत्यर्थ इति भावः । 'यथार्थतामि'त्यस्यान्वर्थतामित्यर्थं दर्शयति-चारुत्वेति । अलङ्काराणामनन्तत्वात्कै- श्चिदित्यस्य विवरणम्-प्रतिभानन्त्यादन्यैरित्यादि ॥ १७ ॥

 'एषा समीक्षेति वृत्तावुक्तं, समीक्षायाः कोऽत्र प्रस्ताव इत्यत आह लोचने- समीक्ष्येत्यादि । समीक्ष्येत्यनेनेति । 'समीक्ष्य विनिवेशित' इत्यत्र समीक्ष्यशब्देने.. त्यर्थः । कारिकाद्वयसारार्थकथनपूर्वकं पूर्वापरग्रन्थसम्बन्धं दर्शयति-यमलङ्कारमि.