हितचेतसः प्रतिभानवतः कवेरहम्पूर्विकया परापतन्ति । यथा कादम्बयाँ
कादम्बरीदर्शनावसरे । यथा च मायारामशिरोदर्शनेन विह्वलायां सीता.
देव्यां सेतौ । युक्तं चैतत् , यतो रसा वाच्यविशेषैरेवाक्षेप्तव्याः । तत्प्रति-
पादकैश्च शब्दैस्तत्प्रकाशिनो वाच्यविशेषा एव रूपकादयोऽलङ्काराः ।
तस्मान्न तेषां बहिरङ्गत्वं रसाभिव्यक्तौ । यमकदुष्करमार्गेषु तु तस्थितमेव ।
यत्तु रसवन्ति कानिचिद्यमकादीनि दृश्यन्ते, तत्र रसादीनामङ्गता यमका-
दीनां त्वङ्गितैव । रसामासे चाङ्गत्वमप्यविरुद्धम् । अङ्गितया तु व्यङ्गये
रसे नाङ्गत्वं पृथक्प्रयत्ननिर्वर्त्यत्वाद्यमकादेः ।
अस्यैवार्थस्य सङ्ग्रह श्लोकाः
रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् । |
लोचनम्
नीत्यर्थः । अहम्पूर्वः भग्न्य इत्यर्थः । अहमादावहमादौ प्रवर्त इत्यर्थः । अहम्पूर्व इत्यस्य भावोऽहम्पूर्विका । अहमिति निपातो विभक्तिप्रतिरूप कोऽस्मदर्थवृत्तिः । एत. दिति । अहंपूर्विकया परापतनमित्यर्थः। कानिचिदिति । कालिदासादिकृतानीत्यर्थः। शक्तस्यापि पृथग्यत्नो जायत इति सम्बन्धः । एषामिति । यमकादीनम् । 'ध्वन्यात्म- भूते शृङ्गारे इति यदुक्तं तत् प्राधान्येनार्धश्लोकेन सङ्ग्रहीते ध्वन्यात्मभूत इति॥१६॥
बालप्रिया
शक्यानीत्यत्र कवेरिति, विस्मयावहानीत्यत्र सहृदयस्येति च शेषः । अहम्पूर्वि- कयेत्येतद्वयाचष्टे-अहमित्यादि । पूर्व इत्यस्य व्याख्या अग्य इति । पर्यवसित. माह-अहमादावित्यादि । वृत्तौ 'तत्प्रतिपादकैश्च शब्दै रिति । आक्षेप्तव्या इत्यने. नास्य सम्बन्धः । 'तत्प्रकाशिन' इति । अत्र तत्पदेन शब्दस्य परामर्शः। तेषा- मिति । रूपकादीनामित्यर्थः । तदिति । बहिरङ्गत्वमित्यर्थः । 'रसाभासे चाङ्गत्व:- मिति । यमकादीनामित्यनुषङ्गः । उक्तानर्थान् वृत्तिकारः श्लोकैः सङ्ग्रह्णाति-रस- वन्तीत्यादि । 'महाकवेरेकेन प्रयत्नेनैव तथाविधानि वस्तूनि निर्वर्त्य॑न्ते' इत्यन्वयः । लोचनेऽन्वयं दर्शयति-शक्तस्यापीति ॥ १६ ॥
१. सेतो सेतुबन्धकाव्य इत्यर्थः ।