पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
द्वितीयोद्योतः


क्रियो भवेत्सोऽस्मिन्नलक्ष्यक्रमव्यङ्ग्ये ध्वनावलङ्कारो मतः। तस्यैव रसा. ङ्गत्वं मुख्यमित्यर्थः ।

यथा-

कपोले पत्त्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृत हृद्योऽधररसः ।

मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटीं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥

 रसाङ्गत्वे च तस्य लक्षणमपृथरयत्ननिर्वर्त्य॑त्वमिति यो रसं बन्धुमध्यव- सितस्य कवेरलङ्कारस्तां वासनामत्यूह्य यत्नान्तरमास्थितस्य निष्पद्यते स न रसाङ्गमिति । यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरप- रिग्रह आपतति शब्दविशेषान्वेषणरूपः । अलङ्कारान्तरेष्वपि तत्तुल्यमिति चेत्-नैवम् ; अलङ्कारान्तराणि हि निरूप्यमाणदुर्घटनान्यपि रससमा-


लोचनम्

दधतीति । लक्षणमिति । ब्यापकमित्यर्थः । प्रबन्धेन क्रियमाणः इति सम्बन्धः । अत एव बुद्धिपूर्वकत्वमवश्यम्भावीति बुद्धिपूर्वकशब्द उपात्तः। रससमवधानादन्यो यत्नो यत्नान्तरम् । निरूप्यमाणानि सन्ति दुर्घटनानि । बुद्धिपूर्वं चिकीर्षितान्यपि कर्तुमश- क्यानीत्यर्थः । तथा निरूप्यमाणे दुर्घटनानि कथमेतानि रचितानोत्येवं विस्मयावहा.

बालप्रिया

प्रकृते तत्पदेन व्यापकमात्रं विवक्षितमित्याह-व्यापकमित्यर्थ इति । ज्ञापकमि- त्यर्थ इति पाठेन भाव्यमिति केचित् । अपृथग्यत्ननिर्वर्त्य॑त्वमलङ्कारस्य रसाङ्गत्व- व्यापकमिति 'रसाङ्गत्व' इत्यादि वृत्यर्थ इति भावः। उक्तमर्थ साधयितुं व्यतिरेकं दर्शयति वृत्ती-'यो रसमित्यादि । योऽलङ्कारो निष्पद्यत इत्यन्वयः । 'तां वासना' मिति । रसबन्धाध्यवसायवासनामित्यर्थः । 'अत्यूह्य अतिलङ्घ्य परित्यज्येति यावत् । 'आस्थितस्य' आश्रितवतः । कवेरित्यनेनास्य सम्बन्धः । 'स न रसाङ्गमिति । तस्मिन्नलङ्कारे रसाङ्गत्वं नास्तीत्यर्थः । यम कादिनिबन्धे यत्नान्तरमावश्यकमित्याह- 'यमक' इत्यादि । 'प्रबन्धेन' अविच्छेदेन । अस्य 'बुद्धिपूर्वकमि'त्यनेनान्वय भ्रमः स्यादतोऽन्वयं दर्शयति लोचने-क्रियमाण इति । यत्नान्तरपरिग्रह इत्यत्र यत्ना- न्तरपदं विवृणोति-रसेत्यादि। रससमवधानात् रसनिष्पादकात् । निरूप्यमा- णदुर्घटनानीत्येतत्प्रकृतानुगुण्येन द्वेधा व्याचष्टे-निरूप्यमाणानीत्यादि । कर्तुम-