पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
सटीकलोचनोपेतध्वन्यालोके


 निष्पत्तावाश्चर्यभूतोऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्य


लोचनम्

 

टनामेव कुर्वस्तुन्नान्तरीयकतया यमासादयति स एवात्रालङ्कारो रसमार्गे, नान्यः । तेन वीराद्भुतादिरसेष्वपि यमकादि कवेः प्रतिपत्तुश्च रसविघ्नकार्येव सर्वत्र । गडडुरिकाप्र- वाहोपहतसहृदयधुराधिरोहणविहीनलोकावर्जनाभिप्रायेण तु मया शृङ्गारे विप्रलम्भे च विशेषत इत्युक्तमिति भावः । तथा च 'रसेऽङ्गत्वं तस्मादेषां न विद्यते' इति सामाग्येन वक्ष्यति। निष्पत्ताविति। प्रतिभानुप्रहात्स्वयमेव सम्पत्तौ निष्पादनानपेक्षायामित्यर्थ । आश्चर्यभूत इति । कथमेष निबद्ध इत्यद्भुतस्थानम् । कर किसलयन्यस्तवदना श्वासतान्ताधरा प्रवर्तमानबाष्पभरनिरुद्धकण्ठी अविच्छिन्नरुदितचञ्चत्कुचतटा रोषम. परित्यजन्ती चाटूक्त्या यावत्प्रसाद्यते तावदीर्ण्याविप्रलम्भगतानुभावचर्वणावहितचेतस एव वक्तुः श्लेषरूपकव्यतिरेकाद्या असत्ननिष्पन्नाश्चर्वयितुरपि न रसचर्वणाविघ्नमा.

बालप्रिया

यमलङ्कारमित्यर्थः । स एवात्र रसमार्गेऽलङ्कार' इति सम्बन्धः। ध्वनावित्यस्य विवरणम्-अत्र रसमार्ग इति । अलक्ष्यक्रमे रससामान्य इत्यर्थः । तेनेति । ध्वनाविति सामान्यनिर्देशेनेत्यर्थः । वीरेत्यादि । तत्काव्येष्वित्यर्थः । 'यमकादिरस- विघ्नकार्ये वेति योजना । सर्वत्रेत्यस्य वीरेत्यादिना सम्बन्धः । नन्वेवं पूर्वोक्त विरु- द्धयेतेत्यत आह-गड्डुरिकेति । गड्डुरं मेषमनुधावतीति गड्डरिका मेषानु- गन्त्री मेषपङ्क्तिः, तत्साम्याद्गतानुगतिकतेत्यर्थः । तस्याः प्रवाहेण अविच्छेदेन -उपह्रताः नष्टविवेकाः तथा सहृदयधुराधिरोहणेन विहीनाश्च ये लोकाः जनास्तदावर्ज- माभिप्रायेणेत्यर्थः । मयेति । मूलकृतेत्यर्थः । भावः मूलकृदभिप्रायः । उक्तार्थे उप. ष्टम्भकमाह-तथाचेति । सम्पत्तौ उत्पत्ती । स्वयमेवेत्यस्यैव विवरणम्- निष्पादनेत्यादि । तन्निष्पत्यनुकूलयत्नान्तरानपेक्षायामित्यर्थः । 'कपोल' इत्यादेः सारार्थ विवृण्वन्नलङ्कारान् दर्शयति-करेत्यादि । श्वासेति। श्वासेन तान्तः म्ला. नोऽधरो यस्याः सा । अविच्छिन्नेति । विच्छिनविच्छिन्नेति च पाठः । प्रसाधत इति । वक्त्रा नायकेन प्रणयकुपिता नायिकेति शेषः । ईर्ष्येत्यादि । अनुभावो निश्वा- सादिः तस्य चर्वणा पुनः पुनरनुसन्धानम् । वक्तुरिति । कविनिबद्धनायकस्य कवे- श्चैवेयं विवक्षित्वोक्तिः । 'अयत्ननिष्पन्ना' इत्यनेनास्य सम्बन्धः । श्लेषेत्यादि । अधररस इत्यत्र रसशब्दस्यास्वाद्यमाधुर्योभयार्थकत्वात्तत्र श्लेषः । यद्वा श्लोकेऽस्मिन्न. र्थश्लेषः । यतः, मन्युः प्रिय इति रूपकं, कपोल इत्याद्यर्थस्तत्साधकः, करतलनिरोधा- दिना मर्दनादिक्रिया प्रति प्रयोजककर्तृत्वं मन्युप्रियोभयसाधारणम् । 'निपीत' इत्य. न्तर्भावितण्यर्थकम् । 'बाष्प' इत्यस्य बाष्पात्मा मन्युरित्यर्थश्च । वयन्तु न प्रिया इति व्यतिरेकः । आद्यपदेनानुप्रासो गृह्यते । चर्चयितुरिति । सहृदयस्येत्यर्थः । । न आदधतीति सम्बन्धः । लक्षणं नाम लक्ष्यतावच्छेदकव्यापकः तद्वथाप्यश्च धर्मः ।