पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
द्वितीयोद्द्योतः


शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ १५ ॥

 ध्वनेरात्मभूतः शृङ्गारस्तात्पर्येण वाच्यवाचकाभ्यां प्रकाश्यमानस्तस्मि. न्यमकादीनां यमकपकाराणां निबन्धनं दुष्करशब्दभङ्गश्लेषादीनां शक्तावपि प्रमादित्वम् । 'प्रमादित्वा मित्यनेनैतद्दर्श्यते--काकतालीयेन कदाचित्क. स्यचिदेकस्य यमकादेनिष्पत्तावपि भूम्नालङ्कारान्तरवद्रसाङ्गत्वेन निबन्धो न कर्तव्य इति । 'विप्रलम्भे विशेषत' इत्यनेन विप्रलम्भे सौकुमार्यातिशयः ख्याप्यते । तस्मिन्द्योत्ये यमकादेरङ्गस्य निबन्धो नियमान्न कर्तव्य इति ।

 अत्र युक्तिरभिधीयते-

रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्त्ननिर्वर्त्यः सोऽलङ्कारो ध्वनौ मतः॥ १६ ।।


लोचनम्

श्लेष इति । अर्थश्लेषो न दोषाय 'रक्तस्त्वं' इत्यादौ ; शब्दभङ्गोऽपि क्लिष्ट एव दुष्टः, न त्वशोकादौ ॥ १५ ॥

 युक्तिरिति । सर्वव्यापकं वस्त्वित्यर्थः । रसेति । रससमवधानेन विभावादिघ-

बालप्रिया

 वृत्तौ 'यमकादीनामित्त्यस्य व्यख्यानं 'यम प्रकाराणामिति । अस्योपपपत्तिमाह- आदिशब्द इति । यमकप्रकाराणामित्यस्यैव विवरणम्-'दुष्करे'त्यादि । तद्वथाचष्टे- दुष्करमित्यादि । शब्दभङ्गश्लेषेत्युक्ते. फलमाह -अर्थश्लेष इति । अभङ्गश्लेष इत्यर्थः । अभङ्गश्लेषोऽर्थश्लेषश्च प्राचां मते एक एवेति स्फष्टं काव्यप्रदीपादौ । रक्त स्त्वमिति । अत्र रक्तशिलीमुखादिपदेऽर्थश्लेषः । न त्वशोकादाविति । अशोकादि- पदे शब्दभङ्गो न दुष्ट इत्यर्थः । अशोकपदं रूढया वृक्षविशेषं शब्दभङ्गेन नास्ति शोको यस्येति योगव्युत्पत्या शोकरहितं च वक्तीति भावः । वृत्तौ–'शक्तावपि प्रमादि- त्वमिति । “अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेरिति वक्ष्यमाणत्वेन दोष- 'तिरोधायकशक्तौ सत्यामपि कवेः प्रमादित्वस्य ज्ञापकं भवतीत्यर्थः । 'काकतालीयेने'. त्यादि । भूम्ना यमकादिनिबन्धनस्यैव प्रमादित्वज्ञापकत्वेनाकर्तव्यत्वात्कदाचित्कस्य- चिदेकस्य यमकादेर्निष्पत्तिर्न दोषावहेति भावः ॥ १५॥

 यथाश्रुतयुक्तिपदार्थस्यात्र बोधात्तत्पदं व्याचष्टे-सर्वेत्यादि । 'रसेति 'ध्वना- विति च सामान्योक्तेः तात्पर्य दर्शयन् कारिकां व्यावष्टे-रसेत्यादि । रसाक्षिप्त- तयेत्यादेरर्थतो विवरणम्-रससमवधानेनेत्यादि । तन्नान्तरीयरीयकतयेति । तत्पदेन विभावादिघटना परामृश्यते तनिष्पादकयत्ननिष्पाद्यत्वेनेत्यर्थः । यमिति ।