दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसाम् । |
दिङ्मात्रकथनेन हि व्युत्पन्नानां सहृदयानामेकत्रापि रसभेदे सहाल- ङ्कारैरङ्गाङ्गिभावपरिज्ञानादासादितालोका बुद्धिः सर्वत्रैव भविष्यति ।
तत्र-
शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् । |
अङ्गनिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास्तेषु सर्वेष्वेकप्रकारानुबन्धिः तया प्रबन्धेन प्रवृत्तोऽनुप्रासो न व्यञ्जकः । अङ्गिन इत्यनेनाङ्गभूतस्य शृङ्गारस्यैकरूपानुबन्ध्यनुप्रासनिबन्धने कामचारमाह । अनि
ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । |
लोचनम्
येनेति । दिङ्मात्रोक्तेनेत्यर्थः । सचेतसामिति । महाकवित्वं सहृदयत्वं च प्रेप्सूनामिति भावः । सर्वत्रेति । सर्वेषु रसादिष्वासादित आलोकोऽवगमः सम्यग्व्यु- त्पत्तिर्ययेति सम्बन्धः ॥ १३ ॥
तत्रेति । वक्तव्ये दिङ्मात्रे सतीत्यर्थः । यत्नादिति । यत्नतः क्रियमाणत्वादिति हेत्विर्थोऽभिप्रेतः । एकरूपं त्वनुबन्धं त्यक्त्वा विचित्रोऽनुप्रासो निबध्यमानो न दोषाये- त्येकरूपग्रहणम् ॥ १४ ॥
१. यमकादीत्यादिशब्दः प्रकारवाची । दुष्करं मुरजचक्रबन्धादि । शब्दभङ्गन
बालप्रिया
विरहपीडाहेतुभूताया अपि स्रजो दयिताग्रथनरूपकारणविशेषाद्विरहपीडापरिहारकसुधा. रसस्रावकत्वमुक्तमिति कारणकृतो भेदः ॥ १२ ॥
कारिकां व्याचष्टे-येनेत्यादि । सचेतसामित्यनेन प्रकृते विवक्षितमाह-महे. त्यादि । येनेत्यस्य विवरणं वृत्तौ–'दिङ्मात्रकथनेनेति । अस्यैव विवरणमुपपादकं वा 'व्युत्पन्नानामित्यादि 'परिज्ञानादित्यन्तम् ॥ १३ ॥
हेत्वर्थ इति । यत्नतः क्रियमाणत्वमप्रकाशकत्वे हेतुरिति भावः । “एकरूपानुब. न्धवानि त्यत्रैकरूपग्रहणस्य फलमाह-एकेत्यादि ॥ १४ ॥
१. व्युत्पत्तिश्च प्रकृतवक्तृसमवेततात्पर्यंविषयार्थगोचरो दृढतरस्संस्कारः ।
२. 'आदिशब्दन्तु मेधावी चतुर्थेषु भाषते ।
प्रकारे च व्यवस्थायां समीपेऽवयवे तथा' ॥ इत्यभियुक्ताः ।