पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
द्वितीयोद्द्योतः


म्भस्याप्यभिलाषाविरहप्रवासविप्रलम्भादयः । तेषां च प्रत्येकं विभावानु- भावव्यभिचारिभेदः । तेषां च देशकालाद्याश्रयावस्थाभेद इति स्वगतभेदा- पेक्षयैकस्य तस्यापरिमेयत्वम् , किं पुनरङ्गप्रभेदकल्पनायाम् । ते ह्यङ्गप्रभेदाः प्रत्येकमङ्गिप्रभेदसम्बन्धपरिकल्पने क्रियमाणे सत्यानन्त्यमेवोपयान्ति ।


लोचनम्

रत्यभावे कामावस्थामात्रं तत् । ईर्ष्याविप्रलम्भः प्रणय खण्डनादिना खण्डितया सह । विरहविप्रलम्भः पुनः खण्डितया प्रसाद्यमानयापि प्रसादमगृह्णन्त्या ततः पश्चात्तापपरी. तत्वेन विरहोत्कण्ठितया सह मन्तव्यः । प्रवासविप्रलम्भः प्रोषितभर्तृकया सहेति विभागः । आदिप्रहणाच्छापादिकृतः, विप्रलम्भ इव च विप्रलम्भः। वञ्चनायां ह्यभिल.. षितो विषयो न लभ्यते । एवमत्र । तेषां चेति । एकत्र सम्भोगादोनामपरत्र विभा- वादीनाम् । आश्रयो मलयादिः मारुतादीनां विभावानामिति यदुच्यते तद्देशशब्देन गतार्थम् । तस्मादाश्रयः कारणम् । यथा ममैव-

दयितया प्रथिता स्रगियं मया हृदयधामनि नित्यनियोजिता ।
गलति शुष्कतयापि सुधारसं विरहदाहरुजां परिहारकम् ॥

 तस्येति शृङ्गारस्य । अङ्गिनां रसादीनां प्रभेदस्तत्सम्बन्धकल्पनेत्यर्थः ।

बालप्रिया

रत्यभाव इति निमित्ते सप्तमी । रतेरभावेन हेतुनेत्यर्थः । निश्चितपरस्पराधिष्ठाना हि रतिः श्रृगारस्थायी । कामावस्थामानं तदिति । रत्नावलीगता रतिः -अभिलाष- रूपैवेत्यर्थः । प्रणयेति । प्रणयः स्नेहः प्रार्थना वा । खण्डितयेति । खण्डितया सहेति सम्बन्धः। प्रसाद्यमानयेत्यादि खण्डिताविशेषणम् । उक्तानामभिलाषादीनां वञ्चनार्थकविप्रलम्भपदेन व्यवहारमुपपादयति-विप्रलम्भ इवेति । विप्रलम्भशब्दो गौण इति भावः । द्वयोः साम्यमाह-वञ्चनायामित्यादि । एवमत्रेति । तथा अभिलाषादावित्यर्थः । वृत्तौ 'तेषां च प्रत्येकमिति तेषां च देशे'त्युभयत्र स्थिते, तेषामिति पदे क्रमेण विवृणोति-एकत्रेत्यादि । देशकालाश्रयावस्थाभेद इत्यत्राश्रय- पदस्य केषाञ्चिद्वयाख्यानं न युक्तमित्याह-आश्रय इत्यादि । तदित्यादि । तथार्थे सति पौनरूक्त्यं स्यादित्यर्थः । दयितयेति । शुष्कतरापीति च पाठः । हृदयतापाति- शयेन शुष्कत्वम् । सुधारसं गलति स्रावयतीत्यतिशयोक्तिः । अत्रोद्दीपकत्वेन


 १. 'पार्श्वमेति प्रियो यस्या अन्य सम्भोगचिहितः। सा खण्डितेति कथिता धोरैरोाकषायिता' ॥ इति खण्डिताया लक्षणम् ।

 २. कलहान्तरितयेत्यर्थः । तल्लक्षणं यथा-'चाटुकारमपि प्राणनाथं रोषादपास्य या पश्चात्तापमवाप्नोति कलहान्तरिता तु सा' इति ।

     २८ ध्व०