पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
सटीकलोचनोपेतध्वन्यालोके


सीमानो विशेषास्तेषामन्योन्यसम्बन्धपरिकल्पने क्रियमाणे कस्यचिदन्य. तमस्यापि रसस्य प्रकाराः परिसङ्खयातुं न शक्यन्ते किमुत सर्वेषाम् । तथा हि शृङ्गारस्याङ्गिनस्तावदाद्यौ द्वौ भेदौ-सम्भोगो विप्रलम्मश्च । सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणाः प्रकाराः । विप्रल.


लोचनम्

रपि। सुरतं चातुःषष्टिकमालिङ्गनादि । विहरणमुद्यानगमनम् । आदिग्रहणेन जल- क्रीडापानकचन्द्रोदयक्रीडादि । अभिलाषविप्रलम्भो द्वयोरप्यन्योन्यजीवितसर्वस्वाभि. मानात्मिकार्यां रतावुत्पन्नायामपि कुतश्चिद्धेतोरप्राप्तसमागमत्वे मन्तव्यः । यथा 'सुखय. तीति किमुच्यत' इत्यतः प्रभृति वत्सराजरत्नावल्योः, न तु पूर्व रत्नावल्याः । तदा हि

बालप्रिया

रमिति । 'विप्रलम्भस्यापीत्यादिग्रन्थं विवृणोति-अभिलाषविप्रलम्भ इत्यादि । सुखयतीति किमुच्यत इति । इदं रत्नावलीनाटिकायां विदूषकं प्रति वत्सराजस्य वचनम् । न तु पूर्वं रत्नावल्या इति । इत्यत इत्यस्यानुषङ्गः । एतद्वचनात्पूर्व रत्ना- वल्या अभिलाषविप्रलम्भो नैवेत्यर्थः । एतद्वचनश्रवणेनैव राज्ञः स्वस्मिन्ननुरागस्य र- त्नावल्या निश्चयादिति भावः । एतमेव हेतुं दर्शयन्नाह-तदेत्यादि । तदा पूर्वकाले ।


 १. 'आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीत्कृतपुरुषायितौपरिष्टकानामष्टा- नामष्टधा विकल्पभेदावष्टावष्टकाश्चतुष्षष्टिरिति बाभ्रवीयाः' इति (२. २.४) काम. सूत्रम् । तत्रालिङ्गनमसम्प्रयोगकालिकं सम्प्रयोगकालिकञ्चेति द्विविधं सत् प्रत्येक क्रमेण चतुर्विधम्-स्पृष्टक, विद्धक, उद्धृष्टकं, पीडितकम् ; लतावेष्टितक, वृक्षाधिरू- ढक, क्षीरनीरचेति । ललाटालककपोलनयनवक्षःस्तनोष्ठान्तर्मुखेषु अष्टसु स्थानेषु चु. म्बनमष्टविधम् । आच्छुरितकमर्धचन्द्रो मण्डलं रेखा व्याघनखं मयूरपदक शशप्लुत. कमुत्पलपात्रकमिति नखच्छेद्यमष्टविकल्पम् । गूढकमुच्छूनकं बिन्दुर्बिन्दुमाला प्रवासम- णिमणिमाला खण्डात्रक वराहचर्वितकमिति दशनच्छेयमष्टप्रकारम् । उत्फुल्लकं, विजृ- म्भितक, इन्द्राणिक, सम्पुटकं, पीडितक, वेष्टितक, वाडवक, समपृष्ठं चेति संवेशनमष्ट- बिधम् । हिङ्कारस्तनितकूजितरुदितसूत्कृतदूत्कृतफूत्कृतविरुतभेदेन सीत्कृतमष्टविधम् । उपसृप्तकं, मन्थनं, हुलोऽवमर्दनं, पीडितक, निर्घातो, वाराहघातो, वृषाघातः, चटक- विलसितम्चेति पुरुषायितमष्टविधम् । निमितं, पार्वतो दष्टं, बहिस्सन्दंशः अन्तस्सन्द. शः, चुम्बितक, परिमुष्टक, आम्रचूषितकं, सगर इत्योपरिष्टकमष्टविधम् । एवं चतु. षष्टिभेदभिन्नं सुरतं भवति । एतेषां लक्षणं कामसूत्रस्य द्वितीयाधिकरणे सविस्तर निरूपितं तत एवावगन्तव्यम् , विस्तरभयान्नेह लिख्यते ।