पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
द्वितीयोद्द्योत


तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये ।
तेपामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥ १२ ॥

 अङ्गितया व्यङ्गयो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गानां वाच्यवाचकानुपातिनामलकाराणां ये प्रभेदा निर. वधयो ये च स्वगतास्तस्याङ्गिनोऽर्थस्य रसभावतदाभासतत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः स्वाश्रयापेक्षया नि:-


लोचनम्

भिन्नवृत्तादिदोषेभ्यो विविक्तं प्रदर्शितम् । नापि गुणेभ्यो व्यतिरिक्तत्वम् । बीभत्सहा- स्यरौद्रादौ त्वेषामस्माभिरुपगमात् शृङ्गारादौ च वर्जनादनित्यत्वं च दोषत्वं च सम- र्थितमेवेति भावः ॥ ११॥

 अङ्गानामित्यलकाराणाम् । स्वगता इति । आत्मगताः सम्भोगविप्रलम्भाद्या आत्मीय गता विभावादिगतास्तेषां लोष्ट प्रस्तारेणाङ्गाङ्गिभावे का गणनेति भावः। स्वाश्रयः स्त्रीपुंसप्रकृत्यौचित्यादिः । परस्परं प्रेम्णा दर्शनमित्युपलक्षणं सम्भाषणादे-

बालप्रिया

सम्बन्धः । भिन्नवृत्तादिदोषा इव श्रुतिदुष्टादिदोषा अपि भामहादिभिरुक्ताः, न त्वेषामनित्यत्वमुक्तमित्यर्थः । नाऽपि गुणेभ्यो व्यतिरिक्तत्वमिति । एषामगुण- त्वमपि नोक्तमित्यर्थः। समर्थित मेवेति । ध्वन्यात्मन्येवेत्यादिग्रन्थेन साधितमि- त्यर्थः । वृत्तौ श्रृङ्गारे वेत्यादौ 'न चेत्यस्यानुषङ्गः । 'हेया इत्युदाहृता' इत्यस्य 'तेऽपि न वाच्येऽर्थमात्रे' इत्यादिवाक्यत्रयेणापि सम्बन्धश्च बोध्यः ॥ ११ ॥

 अलङ्काराणामिति । अलङ्काराणां रसाद्यङ्गत्वमेवमुपपादितं काव्यप्रदीपोद्योते "रमणीया अप्यर्थास्तुच्छशब्देनाभिधीयमाना न तथा चमत्काराय इत्यनुप्रासादयः शब्दद्वारेण रसायुपकारकाः, उपमादयश्च रसाचभिव्यञ्जकविभावाद्यर्थोत्कर्षाधानद्वारेण रसाद्युपस्कारका अलङ्कारैराहितातिशयाश्चास्वादातिशयं जनयन्ति । अनुभूयते हि निरलङ्कारात्सालङ्कारे कश्चनातिशयः । अलङ्कारा हि विभावाद्युत्कर्षयन्तो बहुधोद्दीपनाः क्वचिदनुभावा अपि यथा नायकादिकृतनायिकादिवर्णन इत्यप्याहुरिति । 'स्वगता' इत्यत्र स्वपदमात्मपरमात्मीयपरं चेति व्याचष्टे-आत्मगता इत्यादि । आत्मगता इत्यस्यैव विवरणम्-सम्भोगेत्यादि । आत्मीयगता इत्यस्य विभावादीति च । तेषामिति । भेदानामित्यर्थः । लोष्टप्रस्तारणेति । प्रस्तारो नाम वृत्तविशेषस्वरूप ज्ञापकः प्रक्रियाभेदः । “पादे सर्वगुरावित्यादिना वृत्तरत्नाकरे लक्षितः, तद्रीत्या भेदानां गणनमशक्यमित्यर्थः । “स्वाश्रयापेक्षयेत्यत्र स्वाश्रयपदं व्याचष्टे-स्त्रीति । श्रीपुंसरूपे ये प्रकृती तदौचित्यादीत्यर्थः । परस्परप्रेमदर्शनमित्येतद्वयाचष्टे-परस्प-