पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
सटीकलोचनोपेतध्वन्यालोके



श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहताः॥११॥

 अनित्या दोषाश्च ये श्रुतिदुष्टादयः सूचितास्तेऽपि न वाच्ये अर्थ- मात्रे, न च यङ्गये शृङ्गारव्यतिरेकिणि शृङ्गारे वा ध्वनेरनात्मभूते । किं तर्हि ! ध्वन्यात्मन्येव शृङ्गारेऽङ्गितया व्यङ्गये ते हेया इत्युदाहृताः । अन्यथा हि तेषामनित्यदोषतैव न स्यात् । एवमयमसंलक्ष्यक्रमद्दयोतो ध्वनेरात्मा प्रदर्शितः सामान्येन ।


लोचनम्

 एवमस्मत्पक्ष एव गुणालङ्कारव्यवहारो विभागेनोपपद्यत इति प्रददर्श्य नित्यानित्य- दोषविभागोऽप्यस्मत्पक्ष एव सङ्गच्छत इति दर्शयितुमाह-श्रुतिदुष्टादय इत्यादि । वान्तादयोऽसभ्यस्मृतिहेतवः । श्रुतिदुष्टा अर्थदुष्टा वाक्यार्थबलादश्लीलार्थप्रतिपत्तिका- रिणः । यथा-'छिन्द्रान्वेषी महांस्तब्धो घातायैवोपसर्पति' इति कल्पनादुष्टास्तु द्वयोः पदयोः कल्पनया । यथा 'कुरु रुचिम्' इत्यत्र क्रमव्यत्यासे । श्रुति कष्टस्तु अधाक्षीत् अक्षोत्सीत तृणेढि इत्यादि । श्रृगार इत्युचितरसोपलक्षणार्थम् । वीरशान्ता- द्भुतादावपि तेषां वर्जनात् । सूचिता इति । न त्वेषां विषयविभागप्रदर्शनेनानित्यत्वं

बालप्रिया

"श्रुतिदुष्टार्थदुष्टे च कल्पनादुष्टमित्यपि ।
श्रुतिकष्टं तथैवाहुर्वा चां दोषं चतुर्विधम् ॥

 इत्यादिना भामहोक्त्तान् श्रृतिदुष्टादिदोषान् सोदाहरणान् दर्शयति-वान्ताद- याऽसभ्येत्यादि । 'श्रुतिदुष्टाः असभ्यस्मृतिहेतवो वान्तादय' इति सम्बन्धः । श्रुति- दुष्टाः श्रुतिदुष्टत्वरूपदोषवन्तः। एवमुत्तरत्रापि बोध्यम् । कारिण इति । शब्दा इति शेषः । छिद्रेति राजवर्णनम् । परस्य छिद्रान्वेषी। स्तब्धः अचञ्चलः । घाताय परेषां विनाशनाय । अत्र पुरुषशेफरूपाश्लीलार्थस्य प्रतीतिर्भवति । कल्प- नयेति । भवन्तीति शेषः । क्रमव्यत्यास इति । रुचिङ्कुरु इति परिवर्तन इत्यर्थः चिङ्कुर्नाम योन्यन्तर्वर्त्यङ्कुरः। अधाक्षीदित्यादि तिङन्तम् । शृङ्गार इतीति । ध्वन्यात्मन्येव शृङ्गार इत्यत्रत्यं ' ङ्गारपदमित्यर्थः । भाव विवृणोति- [-न त्वित्यादि। भिन्नवृत्तादिदोषेभ्यः विविक्तं व्यत्यस्तम् अनित्यत्वम् । एषां श्रुतिदुष्टा- दीनाम् । विषयविभागप्रदर्शनेन विषयविभागं प्रदर्श्य, न तु प्रदर्शितमिति


 १. वीरेऽश्लीलादीनामेव वर्जनेऽभिप्रायः । वीरस्य तु ओजोगुणवत्वेन श्रुतिकटो- स्तद्वयञ्जकत्वेनानुकूल्यमेवेति बोध्यम् । ।