पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
द्वितीयोद्द्योतः


 प्रसादस्तु स्वच्छता शब्दार्थयोः । स च सर्वरससाधारणो गुणः सर्व. रचनासाधारणश्च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ।


लोचनम्

नाम सर्वरसानां गुणः । उपचारात्तु तथाविधे व्यङ्गयेऽर्थे यच्छब्दाथयोः समर्पकत्वं तदपि प्रसादः । तमेव व्यावष्टे-प्रसादेति । ननु रसगतो गुणस्तत्कथं शब्दार्थयोः स्वच्छतेत्याशङ्कयाह-स चेति । चशब्दोऽवधारणे । सर्वरससाधारण एव गुणः । स एव च गुण एवंविधः । सर्वा येयं रचना शब्दगता चार्थगता च समस्ता चासमस्ता च तत्र साधारणः । मुख्यतयेति । अर्थस्य तावत्समर्पकत्वं व्यङ्गयं प्रत्येव सम्भवति नान्यथा । शब्दस्यापि स्ववाच्यापैकत्वं नाम कियदलौकिकं येन गुणः स्यादिति भावः । एवं माधुर्योजःप्रसादा एव त्रयो गुणा उपपन्ना भामहाभिप्रायेण । च प्रति- पत्त्रास्वादमया मुख्यतया तत आस्वाद्ये उपचरिता रसे ततस्तद्वयञ्जकयोः शब्दार्थयो- रिति तात्पर्यम् ॥ १० ॥

बालप्रिया

नन्वेवं प्रसादो गुणः काव्यनिष्ठत्वेन कथमुक्त इत्यत आह-उपचारादित्यादि । तथाविधे रसरूपे । व्यङ्गयेऽर्थ इति । तद्विषयकमित्यर्थः । समर्पकत्वं झटित्यर्प. कत्वम् । तदिति । झटिति रसादिव्यङ्ग्यापकत्वमित्यर्थः । अपीति समुच्चये । गुण इति । प्रसाद इत्यर्थः । कथमिति । शब्दार्थयोः स्वच्छत्वं कथं प्रसादो भवतीत्यर्थः । सः सर्वरससाधारण एव गुणः, स एव सर्वरससाधारणो गुण इति द्वेधावधारणमत्रेत्या- ह-सर्वेत्यादि । अत्राद्यैनैवकारेण शब्दार्थसाधारण्यस्य, द्वितीयेन माधुर्यौलसोश्च व्यवच्छेदः । गुण एवंविध इति । सर्वरससाधारणो गुण इत्यर्थः । सर्वरचनेत्यादिकं व्याचष्टे-सर्वत्यादि । वृत्तौ 'व्यङ्गयार्थेत्यादि । स इत्यनुषङ्गः । एतदुपपादयति- अर्थस्येत्यादि । अर्थस्य वाच्यार्थस्य । तावदित्यादि । वाच्यार्थगतं व्यङ्गपसमर्प कत्वं नाम कियदलौकिकमिति भावः । भाव इति । शब्दार्थयोस्तत्तदर्पकत्वं न गुणः, किन्तु रसस्यैव स्वात्मावेशेन झटिति सहृदयहृदयव्यापकत्वमतो मुख्यतया रसनिष्ठ एव प्रसादाख्यो गुणः, उपचारात्तु सशब्दार्थयोरपीति भावार्थः । उपसंहरति-एवमि- त्यदि। भामहेति । "माधुर्यमभिवाञ्छन्त" इत्यादिभामहवचनानुरोधेनेत्यर्थः । ते चेत्यादि । ते माधुर्यौजःप्रसादा गुणाः । प्रतिपत्तोस्वादमया इति । प्रतिपत्तुये द्रुतिदीप्तिप्रसादात्मकचित्तवृतिविशेषरूपास्वादाः मुख्यतया तत्स्वरूपा इत्यर्थः । ते च चित्तस्था इति भावः । तत इत्यादि । तत्तदास्वादाः तत्तद्रसचर्वणाजन्या इत्यास्वाद्ये तत्तद्रसे ते उपचरिता इत्यर्थः । तत इत्यादि । उपचरिता इत्यस्यानुषङ्गः । श. ब्दार्थयोस्तत्तद्रसचर्वणाप्रयोजकस्वादिति भावः ॥ १० ॥