पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
सटीकलोचनोपेतध्वन्यालोके


समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥१०॥


लोचनम्

वा । अत्र पृथग्भूतैरेव क्रमाद्विमृश्यमानैरर्थैः पदात्पदं क्रोधः परां धारामाश्रित इत्य. समस्ततैव दीप्तिनिबन्धनम् । एवं माधुर्यदीप्ती परस्परप्रतिद्वन्द्वितया स्थिते शृङ्गारा- दिरौद्रादिगते इति प्रदर्शयता तत्समावेशवैचित्र्यं हास्यभयानकबीभत्सशान्तेषु दर्शि- तम् । हास्यस्य श्रृगाराङ्गतया माधुर्यं प्रकृष्टं विकासधर्मतया चौजोऽपि प्रकृष्टमिति साम्यं द्वयोः । भयानकस्य मग्नचित्तवृत्तिस्वभावत्वेऽपि विभावस्य दीप्ततया ओजः प्रकृष्टं माधुर्यमल्पम् । बीभत्सेऽप्येवम् । शान्ते तु विभाववैचित्र्यात्कदाचिदोजः प्रकृष्टं कदा- चिन्माधुर्यमिति विभागः ॥ ९ ॥

 समर्पकत्वं सम्यगर्पकत्वं हृदयसंवादेन प्रतिपत्तृन प्रति स्वारमावेशेन व्यापार- कत्वं झटिति शुष्ककाष्ठाग्निदृष्टान्तेन । अकलुषोदकदृष्टान्तेन च तदकालुष्यं प्रसन्नत्वं

बालप्रिया

इति योजना । एतदुदाहरणे योजयति-अत्रेत्यादि । पृथग्भूतैरिति । भिन्नभिन्नप- दबोध्यैरित्यर्थः । क्रमादिति । क्रमेण क्रमेणेत्यर्थः, विरम्य विरम्येति यावत् । विमृ. श्यमानैरर्थैरिति । वक्त्रा तत्तत्प्रकारेण विचार्यमाणैररित्यर्थः । क्रोध इति । वक्तृं गतक्रोध इत्यर्थः। धारामिति । कोटिमित्यर्थः । दीप्तिमिति पाठे प्रकाशमित्यर्थः आश्रित इति । सहृदयानां भातीति शेषः । असमस्ततेति । पदानां समासाभावोऽ. ल्पसमासश्चेत्यर्थः । दीप्तिनिबन्धनमिति । ओजोव्यञ्जकमित्यर्थः । प्रसङ्गादाह- एवमित्यादि । माधुर्यदीप्ती इति । माधुर्यौजसी इत्यर्थः । परस्परेति । मिथोवि. रोधितयेत्यर्थः । श्रृङ्गारादीति । यथासंख्यं बोध्यम् । तत्समावेशेति । माधुर्यौज- सेसमावेशेत्यर्थः । उक्तमुपपादयति-हास्यस्येत्यादि । शृङ्गाराङ्गतयेति । शृङ्गार. विभावादिप्रभवत्वस्य विकासधर्मतयेति वीरादिप्रभवत्वस्य च उपलक्षणम् ॥९॥

 समर्पकत्वमित्यादि । काव्यस्य सर्वरसान् प्रति सर्वरसानाम् । समर्पकत्वं तु यत् प्रतिपत्तृहृदयै सर्वरसकर्मक झटिति यदर्पणं व्यापनरूपं तत्कर्तृत्वं तु यदिति यावत् । सः सर्वसाधारणी क्रिया वर्तनरूपा यस्य सः। प्रसादो गुणो ज्ञेय' इति कारिकार्थः । एतमर्थ विवृणोति-समर्पकत्वमित्यादि । हृदयसंवादेनेत्यावेशे हेतुः । प्रतिपत्तृ. निति । तद्धृदयानीत्यर्थः । स्वात्मेति । स्वस्वरूपेत्यर्थः । सर्वरसानामित्यस्यात्राप- कर्षः। झटिति व्यापकत्वमिति सम्बन्धः। अत्र दृष्टान्तमाह-शुषकेत्यादि । यथा शुष्ककाष्ठमग्निः, यथा वा अकलुषं स्वच्छं वस्त्रादि उदकं झटिति व्याप्नोति तथे- त्यर्थः । तदकालुम्वमिति । झटिति स्वात्मावेशेन व्यापकत्वरूपं स्वच्छत्वमित्यर्थः । ।