पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
द्वितीयोद्द्योतः


 तत्प्रकाशनपरश्वार्थोऽनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयः ।

यथा-

यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।

यो यस्तकर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ।।

इत्यादौ द्वयोरोजस्त्वम् ।


लोचनम्

तावत्येव मध्ये विश्रान्तिमलभमाना चूर्णितोरुद्वय सुयोधनानादरणपर्यन्ता प्रतीतिरेकत्वे. नैव भवतीत्यौद्धत्यस्य परं परिपोषिका। अन्ये तु सुयोधनस्य सम्बन्धि यत्स्त्याना. वबद्धं घनं शोणितं तेन शोणपाणिरिति व्याचक्षते ।

 य इति । स्वभुजयोर्गुरुर्मदो यस्य चमूनां मध्येऽर्जुनादिरित्यर्थः। पाञ्चा- लराजपुत्रेण धृष्टद्युम्नेन द्रोणस्य व्यापादनात्तत्कुलं प्रत्यधिकः क्रोधावेशोऽश्वत्थाम्नः । तत्कर्मसाक्षीति कणप्रभृतिः । रणे सङ्ग्रामे कर्तव्ये यो मयि मद्विषये प्रतीपं चरति स. मरविघ्नमाचरति । यद्वा मयि चरति सति सङ्ग्रामे यः प्रतीपं प्रतिकूलं कृत्वास्ते स एवं विधो यदि सकलजगदन्तको भवति तस्याप्यमन्तकः किमुतान्यस्य मनुष्यस्य देवस्य

बालप्रिया

सस्य द्रुतं ससंहितमुच्चरितत्वेनाविच्छिन्नवेगशालित्वादित्यर्थः । तावत्येवेति । प्रतीतिवि. शेषणं वेगवत्येवेत्यर्थः । चूर्णितेत्यादि । गदाभ्रमणप्रभृति तदनादरणपर्यन्तार्थविषयि- केत्यर्थः । प्रतीतिरिति। सहृदयप्रतीतिरित्यर्थः । एकत्वेनव भवतीति । एकैव भव- तीत्यर्थः । एकघन इव भातीति च पाठः । औद्धत्यस्येति । वक्तृगतधीरोद्धतत्वस्यै- त्यर्थः । भीमगतक्रोधस्येति यावत् । केचित्तु सुयोधनस्येति शेषे षष्ठी, शोणितमित्यने- नास्य सम्बन्ध इत्याहुः, तन्मतमाह-अन्ये विति ।

 चरतीति लडन्तमिति कृत्वा व्याचष्टे-आचरतीति । करोतीत्यर्थः । तत्स. प्तम्यन्तशत्रन्तमिति कृत्वाह-यद्वेति । तस्यापीत्यपिशब्दार्थमाह-किमुते- त्यादि । वृत्तावनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयोऽर्थश्च तत्प्रकाशनपर


 १. 'ऋद्धस्य राजमातङ्गास्तस्यैवामी तुरङ्गमाः' इत्यादाविवात्रापि एकदेशान्वयोs- नुचितः । 'चैत्रस्य गुरुकुल' 'मैत्रस्य दासभार्ये तिवत् शोणितस्यापि कथञ्चित् नित्य- साकासत्वमङ्गीकृत्य यद्ययं समाधीयते, तदा सम्बन्धषष्ठया न कश्चन चमत्कार कृदर्थः प्रतीयत इत्यन्येषां मतेऽरुचिबीजम् ।