पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
सटीकलोचनोपेतध्वन्यालोके


यथा-

चञ्चभुजभ्रमितचण्डगदाभिधात-
सञ्चूर्णितोरुयुगलस्य सुयोधनस्य ।

स्त्यानावबद्धघनशोणितशोणपाणि-
रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥


लोचनम्

'चञ्चदित्यादि । तत्प्रकाशनपरश्चार्थः प्रसन्नर्गमकैर्वाचकैरभिधीयमानः समासानपेक्ष्यपि दीप्तिरित्युच्यते । यथा-'यो यः' इत्यादि । चञ्चदिति । चञ्चद्भयां वेगादावर्तमानाभ्यां भुजाभ्यां भ्रमिता येयं चण्डा दारुणा गदा तया योऽभितः सर्वत ऊर्वोर्घातस्तेन स. म्यक् चूर्णितं पुनरनुत्थानोपह्रतं कृतमूरूयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमना. दृत्यैव स्त्यानेनाश्यानतया न तु कालान्तरशुष्कतयावबद्धं हस्ताभ्यामविगलद्रूपमत्यन्त- माभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य सः । अत एव स भीमः कातरत्रासदायी। तवेति । यस्यास्तत्तदपमान जातं कृतं देव्यनुचितमपि तस्यास्तव कचानुत्तंसयिष्यत्युत्तंसवतः करिष्यति, वेणीत्वमपहरन् करवि- च्युतशोणितशकलैर्लॊहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा । देवीत्यनेन कुलकलत्र- खिलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृतमिति नात्र शृङ्गारशङ्का कर्तव्या । सुयोधनस्य चानादरणं द्वितीय गदाघातदानाद्यनुद्यमः । स च सञ्चूर्णितोरुत्वादेव । स्त्यानग्रहणेन द्रौपदीमन्युप्रक्षालने त्वरा सूचिता। समासेन च सन्ततवेगवहनस्वभावात्

बालप्रिया

दीप्तिपदमोजःपदोपलक्षकम् । 'प्रसन्नै रित्यस्य व्याख्यानम्-गमकैरिति । झटित्यर्थ- बोधकैरित्यर्थः। सुयोधनस्येति “षष्ठी चानादर" इत्यनेन षष्ठीत्याह-सुयोधनमना- दृत्येति । स्त्यानेनेत्यस्य विवरणम्-आश्यानतयेति । घनीभावेनेत्यर्थः । न वित्यादि । कालान्तरशुष्कतयाप्यवबद्धं भवति तथा नेत्यर्थः । अवबद्धमित्यस्य व्याख्यानम्-हस्ताभ्यामित्यादि । अत्यन्तमित्यादि । अत्यन्ताभ्यन्तरत्वमत्र घनत्वमित्यर्थः । कातरेति । कातरो भीरुः । देव्यनुचितमप्यवमानजातमित्यन्वयः । देव्याः कृताभिषेकाया अनुचितं देव्यनुचितम् । उत्तंसवत इति । उत्तंसः शेखरः । करेति । कराद्विच्युतैः गलितैः शोणितशकलैः रक्तशकलैः । लोहितकुसुमेति । रक्त पुष्पेत्यर्थः । उत्प्रेक्षति सूचितेत्यस्यापकर्षः। कुल्लेति । खिलीकारोऽपकारो सुयो धनप्रेरितदुश्शासनकर्तृककेशाकर्षणादिः । त्वरेति । भीमसेनत्वरेत्यर्थः । सूचितेति । स्त्यानावस्थायामेव उत्तंसीकरणोद्यमादिति भावः । अत्र समास ओजोव्यञ्जक इति दर्शयति-समासेनेत्यादि । समासेन चञ्चदित्यादिना । सन्ततवेगेत्यादि । समा- S