पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
द्वितीयोद्द्योतः


एव दीप्तिरित्युच्यते । तत्प्रकाशनपरः शब्दो दीर्घसमासरचनालङ्कृतं वाक्यम् ।


लोचनम्

तदास्वादमया रौद्राद्याः, तया दीप्त्या आस्वादविशेषात्मिकया कार्यरूपया लक्ष्यन्ते रसान्तरात्पृथक्तया । तेन कारणे कार्योपचाराद्रौद्रादिरेबीजःशब्दवाच्यः । ततो लक्षि- तलक्षणया तत्प्रकाशनपरः शब्दो दीर्घसमासरचनवाक्यरूपोऽपि दीप्तिरित्युच्यते । यथा

बालप्रिया

काचिच्चित्तवृत्तिरित्यर्थः । सा चेत्यादि । “ओजो दीप्ता" वित्यमरः। तदास्वाद. मया इति। दीप्तिरूपचित्तवृत्तिजनका इत्यर्थः । आस्वादविशेषात्मिकयेति । चित्तवृत्तिविशेषरूपयेत्यर्थः । कार्यरूपयेति । रौद्रादिरसचर्वणाजन्ययेत्यर्थः । लक्ष्यन्त इति । ज्ञायन्त इत्यर्थः । पूरयति-रसेति । पृथक्तया भिन्नत्वेन । 'कारणे कार्यो- पचारादेव रौद्रादिरोजःशब्दवाच्यः इति योजना । एवकारोऽप्यर्थको वा। ओजस्वि- काव्य मित्यादिव्यवहारस्थमोजःपदं लक्षणया रौद्राद्यर्थकमित्यर्थः । अनेन रौद्रादय इत्या. दिवृत्तिग्रन्थो विवृतः । वृत्तौ 'लक्षणयैवेति योजना । दीप्तिरित्युच्यन्त इत्यत्र दीप्ति. शब्द ओजःपदोपलक्षकः । तत्प्रकाशनेति । रौद्रादिप्रकाशनेत्यर्थः । कारिकोत्तरार्ध- व्याख्यारूपमेतदादिवृत्तिप्रन्थं विवृणोति-तत इत्यादि । लक्षणया दीप्तिरित्युच्यत इति पदानामनुषङ्गं मनसिकृत्याह-लक्षितलक्षिणयेत्यादि । लक्षितेनार्थेन लक्षणा लक्षित- लक्षणेति केचित् । वाक्यार्थस्य परम्परासम्बन्धी लक्षितलक्षणेत्यपरे । तत्प्रकाशनपरः शब्द इत्यस्यैव विवरणं दीर्घेत्यादीति स्फुटीकर्तुमाह-दीर्घेति । दीप्तिरित्युच्यत इति


 १. ननु विशेष्यवाचकपदसमानवचनकत्वमाख्यातस्यैत्यस्ति नियमः । अत एव प्रकृतिविकृतिभावस्थले 'वृक्षः पञ्च नौका भवतीति, उभयार्थाभेदारोपस्थले च ‘एको द्वौ ज्ञायत' इत्यादयः प्रयोगास्सगच्छन्ते । अत एव च व्युत्पत्तिवादे गदाधरभट्टाचार्यः

'विभज्य मेरुन यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययमरुः ।
अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरस्थितम् ॥

 इति नैषधीयपद्ये निजायशोयुगरूपविशेष्यवाचकपदसमानवचनकत्वाभावात् 'भ. मानीति पदेऽसाधुत्वमाशङ्कय समाहितम् । अयशोद्वयस्य वास्तवत्वेन चिकुरभाग. द्वयस्यैव राज्ञ आरोप्यमाणत्वेनाख्यातार्थविशेष्यत्वान्वयविशेष्यत्वेनायशोयुगस्यैव वि- वक्षितत्वात्' इति प्रन्थेन । अत्र चायशोयुगत्वेन तस्याज्ञाततया प्रक्षालनाभावेऽपि रा- ज्ञोऽसामर्थ्य नागरितं भवतीत्यपरमनुकूलम् । तथा च 'त एव दीप्तिरित्युच्यते' इत्यत्र 'उच्यत' इत्याख्यातस्य विशेष्य वाचकतच्छब्दसमानवचनकत्वाभावात् कथं नासाधु- त्वमिति चेत्-अनोच्यते । अत्र हि 'इति' शब्देनोपस्थाप्यमानो वाक्यार्थ एव वच. धात्वर्थनिरूपितकर्मताश्रय इति तस्य सामान्यस्य संख्याविशेषवत्वेनाविवक्षितत्वात्तथा- विधेऽपि स्थल एकवचनस्य साधुत्वं 'एकवचनं, द्विबोर्द्विवचनबहुवचने' इति सौत्र- न्यासं कुर्वाणैमहा भाष्यकारैस्मुस्पष्टमुद्घोषितम् इति ।

    २७ ध्व०