पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

एतदुक्तं भवति-वस्तुतो माधुर्य नाम शृङ्गारादे रसस्यैव गुणः । तन्मधुररसाभि.

बालप्रिया

कारिकाभावार्थमाह-एतदुक्तमित्यादि । शृङ्गारादेरित्यादिपदेन करुणस्य सङ्ग्रहः । तदिति। माधुर्यमित्यर्थः। उपचरितं साक्षात्सम्बन्धेनारोपितम् । फलितमाह-मधु.


 १. इदमत्र विभावनीयम्-प्राचीनाः श्लेषादीन् दश शब्दगुणान् , तानेव च तावतो लक्षणभेदेन भिन्नानर्थगुणान्निजगदुः । श्रीभोजराजस्तु भूयसो गुणभेदान् वर्ण- याम्बभूव श्रीमदानन्दवर्धनाचार्याभिनवगुप्तमम्मटविश्वनाथप्रभृतयो धीमन्तो माधुर्यौजःप्रसादाभिधान् रसमात्रनिष्ठान् त्रीनेव गुणान् निनिर्णिरे। तथाहि तेषां मतम्-सहृदयानां नवरस चर्वणाजन्याः तिस्रो दशा भवन्ति-द्रुतिर्विस्तारो विका- सश्चेति । द्रुतिर्नाम सहृदयानुभवसाक्षिकस्सुकुमारो लोचन सलिलपुलकाद्यनुभावित- शौर्यक्रोधाद्युद्भावितदीप्तत्वविस्मयहासादिजनितविक्षेपाननुविद्धचित्तवृत्तिविशेषः । स च शृङ्गारकरुणशान्तेभ्यो जायते । विस्तारो नाम द्रुतिविरोधिनी दीप्त्यपरपर्याया जिगीषात्यन्तत्यागेच्छावधावधिकप्रयासादिकारिणी काचन वृत्तिरन्तः करणस्य । सा च वीररौद्रबीभत्सेभ्यस्तम्भवति । एवं विकासोऽपि हास्याद्भुतभयानकेभ्यो जायमान श्वेतोवृत्तिविशेष एव, यत्र हास्ये वदनस्य, अद्भुते लोचनस्य, भयानके गमनस्य विकासरूपोऽनुभावः समनुभूयते । स च विकासः श्रृगारविभावप्रभवे हास्ये द्रुत्या, वीरादिप्रभवे च तस्मिन् विस्तारेण च सम्मिश्रो भवति । भयानकाद्भुतयोरपि विकासे वीरबीभत्श्रृङ्गारविभावादिप्रभवतया द्रुत्या विस्तारेण चानुविद्धता । प्रसादस्थले च सर्वेषामेषामाधिक्यमनुभूयत इति वृत्तित्रयरूपकार्यवैजात्यनियामकतया कारणत्रयं कल्प्यते । कार्यवैजात्यं हि कारणवैजात्याधीनमेव इति त्रय एय माधुर्यौप्रसा. दाभिधाना अवस्थात्रयहेतुभूता गुणाः प्रामाणिककोटिमाटीकन्त इति ।

 नव्यास्त्वत्र प्रत्यवतिष्ठन्ते-अस्य गुणत्रयस्य रसमात्रधर्मत्वे न दृढतरं प्रमा- णमस्ति । यतः, प्रत्यक्षं न शक्नोत्यत्र पदमाधातुम् । दहनगतस्योष्णस्पर्शस्य तस्का- र्यस्य भस्मीकरणप्रभृतेः पार्थक्येनोपलम्भस्येव रसवृत्तिगुणानां तत्कार्यभूतानां द्रुत्या- दिचेतोवृत्तीनां विभिन्नतया उपलम्भाभावात् । नाप्यनुमानं प्रभवति तत्समर्थयितुम् , श्रृगारत्वादितत्तद्वैयत्यिकधर्मेणैव रसानां हेतुत्वे बाधकाभावेन तत्तद्गुणवैशिष्ट्येन हेतु- तामभ्युपगम्य हेतुतावच्छेदकतया माधुर्याद्यङ्गीकारे गौरवप्रसङ्गात् । माधुर्यादिगुणव- त्त्वेन द्रुत्यादिचित्तवृत्ती: प्रति एककार्यकारणभावे लाघवप्रदर्शनन्तु व्यामोहमात्रम् , तथा कार्यकारणभावानभ्युपगमात् । प्रत्युत तत्तदतिशयित्तद्रुत्यादिचित्तवृत्तीः प्रति त. त्तद्विशेषरूपेण रसानां कार्यकारणभावस्वीकारस्यैव प्राच्यैरुच्यमानत्वात् । अपि चात्मनो निर्गुणत्वस्य सर्वप्रमाणमौलिभूतवेदान्तैः प्रतिपादिततया आत्मभूतरसगुणत्वं माधुर्या- दीनां कथमिव नोपहासास्पदम् ? तदुपाधिभूतरत्यादीनामिमे गुणा इत्यपि न साम्प्र.