पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
द्वितीयोद्द्योतः


तथा च-

शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ॥ ७ ॥


लोचनम्

 कथाह-। तेन वक्ष्यमाणेन बुद्धिस्थेन परिहारप्रकारेणोपपद्यते चैतदित्य. ननु शब्दार्थयोमाधुर्यादयो गुणाः, तत्कथमुक्तं रसादिकमङ्गीनं गुणा आश्रिता इत्याशङ्कयाह- तथा चेत्यादि ।तेन वक्ष्यमाणेन बुद्धिस्थेन परिहारप्रकारेणोपपद्यते चैतदित्यर्थः। श्रृङ्गार एवेति । मधुर इत्यत्र हेतुमाह-परः प्रह्लादन इति । रतौ हि समस्त- देवतिर्यत्नरादिजातिध्वविच्छिन्नैव वासनास्त इति न कश्चित्तत्र तादृग्यो न हृदयसंवाद. मयः, यतेरपि हि तच्चमत्कारोऽस्त्येव । अत एव मधुर इत्युक्तम् । मधुरो हि शर्करा- दिरसो विवेकिनोऽविवेकिनो वा स्वस्थस्यातुरस्य वा झटिति रसनानिपतितस्तावदभिल- षणीय एव भवति । तन्मयमिति । स श्रृङ्गार आत्मत्वेन प्रकृतो यत्र व्यङ्ग्यतया। काव्यमिति शब्दार्थावित्यर्थः । प्रतितिष्ठतीति । प्रतिष्ठां गच्छतीति यावत् ।

बालप्रिया

प्राचीनरुतात्वादिति भावः । तथाचेत्येतत्प्रकृतानुगुण्येन व्याचष्टे-तेनेत्यादि । कारिका 'तथाचेत्यादिप्रन्थमवतारयति-नन्वित्यादि । शब्दार्थयोरित्यादि । तथैव व्याचष्टे-मधुर इत्यादि । मधुरः माधुर्याख्य गुणविशिष्टः । हेतुमिति । ज्ञापकमि त्यर्थः । परप्रह्लादनत्वमुपपादयति-रतावित्यादि । रतौ जायमानायामिति शेषः । वासनेति। संस्कारापरपर्याया सूक्ष्मावस्थेत्यर्थः। इतीति हेतौ।नेत्याति। तत्र रतौ । हृदयसंवादमयः प्राचुर्येण हृदयसंवादशाली। यस्तत्र हृदयसंवादमयो न वासनेति । संस्कारापरपर्याया सूक्ष्मावस्थेत्यर्थः । इतीति हेतौ। नेत्यादि । तत्र रतौ।ह्रदयसंवादमयः प्राचुर्येण ह्रदयसंवादशाली। यस्तत्र ह्रदयसंवादमयो न तादृक्कश्चिन्नेत्यन्वयः । सर्वेषां रती हृदयसंवादो भवतीत्यर्थः । तञ्चमत्कार इति । रतौ हृदयसंवाद इत्यर्थः । अवतारिकोक्तं योजयति-अत इत्यादि । उक्तं दृष्टान्तेन, विशदयति-मधुरोहीत्यादि । कारिकायां मधुर इत्यादिना अयमर्थोऽपि दृष्टान्तवि- षया विवक्षित इति भावः । विवेकिनोऽविवेकिनो वेति । सर्वस्यैवेत्यर्थः । अभि- सूत्रेण मयडिति व्याचष्टे-स इत्यादि। आत्मत्वेनेत्यस्योपपादक-व्यङ्गयतयति । लषणीय पवेति । प्रहादन एवेति भावः। तन्मयमित्यत्र "तत्प्रकृतवचने मयडिगति.


१. श्लेषः प्रसादस्समता माधुर्ये सुकुमारता।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥

 इम एव दशगुणा विभिन्नाकारेण शब्दार्थनिष्ठा भामहप्रभृतिभिरुताः । तदाह-

 २ अत एव काव्यप्रकाशतोऽपि शब्दार्थों काव्यमिति प्राहुः । लोचन कारः 'शब्दार्थयो रित्यादिना ।