पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
सटीकलोचनोपेतध्वन्यालोके


त्वेन । तस्मादङ्गत्वेन च रसादीनामलङ्कारता । यः पुनरङ्गी रसो भावो वा सर्वाकारमलङ्कार्यः स ध्वनेरात्मेति । किञ्च-

तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ॥ ६ ॥

 ये तमर्थं रसादिलक्षणमङ्गिनं सन्तमवलम्बन्ते ते गुणाः शौर्यादिवत्। वाच्य- वाचकलक्षणान्यङ्गानि ये पुनस्तदाश्रितास्तेऽलङ्कारा मन्तव्याः कटकादिवत् ।


लोचनम्

क्त्वा काव्येऽनाख्येय एव स्यात् ; शास्त्रेतिहासयोरपि वा । एवं परमतं दूषयित्वा स्वमतमेव प्रत्याम्नायेनोपसंहरति-तस्मादिति । यतः परोक्तो विषयविभागो न युक्त इत्यर्थः । भावो वेति वाग्रहणात्तदाभासतत्प्रशमादयः । सर्वाकारमिति क्रियाविशेष- णम् । तेन सर्वप्रकारमित्यर्थः । अलङ्कार्य इति । अत एव नालङ्कार इति भावः ॥५॥

 अलङ्कार्यव्यतिरिक्तश्चालङ्कारोऽभ्युपगन्तव्यः, लोके तथा सिद्धत्वात् , यथा गुणि- व्यतिरिक्तो गुणः । गुणालङ्कारव्यवहारश्च गुणिन्यलङ्कार्ये च सति युक्तः । स चास्मत्पक्ष एवोपपन्न इत्यभिप्रायद्वयेनाह-किञ्चेत्यादि । न केवलमेतावद्युतिजातं रसस्याङ्गीत्वे, यावदन्यदपीति समुच्चयार्थः । कारिकाप्यभिप्रायद्वयेनैव योज्या । केवलं प्रथमाभि- प्राये प्रथम कारिकार्धं दृष्टान्ताभिप्रायेण व्याख्येयम् । एवं वृत्तिग्रन्थोऽपि योज्यः ॥६॥

बालप्रिया

वृत्तिविशेषस्य उद्दीपनविभावतामित्यर्थः । शास्त्रेति । अनाख्येय इत्यनुषज्यते । न हि तदस्ति वस्तु यन्न किञ्चिचित्तवृत्तिविशेषमुबोधयतीति भावः। प्रत्याम्नायेन उक्तस्यैव पुनः कथनेन । आम्नायपदेन वेदवदस्यं प्रामाण्यं द्योत्यते। वाग्रहणा- दिति । गृह्यन्त इति शेषः । अलङ्कार्य इत्युक्त्या गम्यमाह-अत एवेति ॥ ५॥

 "किश्चेत्यादिग्रन्थमवतारयति-अलङ्कार्यत्यादि । अभिप्रायान्तरं चाह-गुणे- ति । स चेति । गुणालङ्कारव्यवहारश्चेत्यर्थः । किश्चेत्यस्यार्थमाह-नेत्यादि । युक्ति- जातं युक्तिसमूहः। अभिप्रायद्वयेनेति । उक्तेनेति भावः । योजनां दर्शयति-- केवलमित्यादि । प्रथमाभिप्राय इति । अलङ्कार्यव्यतिरिक्तश्चालङ्कारोऽभ्युपगन्तव्य इत्यभिप्राय इत्यर्थः। प्रथमं कारिकार्धमिति। तमर्थमित्याद्यमित्यर्थः । दृष्टा- न्तेति । यथा गुणिव्यतिरिक्तो गुण इति दृष्टान्तेत्यर्थः । द्वितीयाभिप्रायस्तु पूर्वोत्तरा- र्धाभ्यां गम्य इति भावः । वृत्तौ तमर्थमित्यस्य विवरणं-'रसादिलक्षणमिति । 'अङ्गिनं सन्त मिति तद्विशेषणमगीभूतमित्यर्थः। शौर्यादिवदिति दृष्टान्तो गम्यः । 'तदाश्रिताः इति । आश्रिता इत्यर्थः ॥ ६॥