पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
द्वितीयोद्द्योतः


 इत्येवमादौ विषयेऽचेतनानां वाक्यार्थीभावेऽपि चेतनवस्तुवृत्तान्तयो. जनास्त्येव । अथ यत्र चेतनवस्तुवृत्तान्तयोजनास्ति तत्र रसादिरलङ्कारः । तदेवं सत्युपमादयो निर्विषयाः प्रविरलविषया वा स्युः । यस्मान्नास्त्येवा- सावचेतनवस्तुवृत्तान्तो यत्र चेतनवस्तुवृत्तान्तयोजना नास्त्यन्ततो विभाव-


लोचनम्

जरठीभवन्तीति। मयि तु सन्निहितेऽनवरतकथितोपयोगान्नेमे जराजीर्णताखिलीकारं कदाचिदवाप्नुवन्तीति भावः । विगलन्ती नीला त्विज्येषामित्यनेन कतिपयकालप्रोषि- तस्याप्यौत्सुक्यनिर्भरत्वं ध्वनितम् । एवमात्मगतेयमुक्तिर्यदि वा गोपं प्रत्येव संप्रधारणो- क्तिः । बहुभिरुदाहरणैर्महतो भूयसः प्रबन्धस्येति यदुक्तं तत्सूचितम् । अथेत्यादि । नीरसत्वमत्र मा भूदित्यभिप्रायेणेति शेषः । ननु यत्र चेतनवृत्तस्य सर्वथा नानुप्रवेशः स उपमादेविषयो भविष्यतीत्याशङ्कयाह-यस्मादित्यादि । अन्तत इति । स्तम्भपुल- लकाद्यचेतनमपि वर्ण्य॑मानमनुभावत्वाच्चेतनमाक्षिपत्येव तावत्, किमत्रोच्यते । अति. जडोऽपि चन्द्रोद्यानप्रमृतिः स्वविश्रान्तोऽपि वर्ण्यमानोऽवश्यं चित्तवृत्तिविभावता त्य-

बालप्रिया

परस्परालम्बनोऽनुरागः तन्निश्चयगर्भमेवेत्यर्थः । तन्निश्चयाभावे वक्ष्यमाणमनुपपन्नं भवेत् गोपीनां पुरुषान्तररमणे तदुपयोगसम्भवादिति भावः । ते इत्यस्य लतावेश्म- सम्बन्धिन इत्यर्थः । जरठीभवन्ति जीर्णीभवन्तीत्यनेन गम्यमाह-मयीत्यादि । अनवरतेति । अनवरतो यः कथितोपयोगः पूर्वोक्तोपयोगः तस्य योगात् । नेम इति । इमे पल्लवाः । जरेति । जराजीर्णतया यः खिलीकारः वैवर्ण्यदिरूपस्तम् । विगलदिति शतृप्रत्ययेन गम्यमाह-कतिपयेति । प्रोषितस्यति । भगवत इति शेषः। औत्सुक्येति । औत्सुक्यमुत्कण्ठा दिदृक्षा वा। उदाहरणत्रयप्रदर्शनफलमाह- बहुभिरित्यादि । बहुभिः त्रिभिः । उदाहरणैः तत्सूचितमिति सम्बन्धः । महत इति वृत्तिस्थस्यानुवादः । तस्य व्याख्यानम्-भूयस इति । वृत्तावथेत्यस्य यदीत्यर्थः । तत्र रसादिरलङ्कारो यदीति योजना । अत्राभिप्रायं पूरणेन दर्शयति-नीरसत्व. मिति । यस्मादित्यादिग्रन्थमवतारयति-नन्विति । 'यत्रान्ततो विभावत्वेन चेतनव- स्तुवृत्तान्तयोजना नास्ति असावचेतनवस्तुवृत्तान्तो नास्तीति वृत्तावन्वयः। अन्ततो विभावत्वेन योजनेति वृत्तायुक्तं, तदभिप्रायमाह-स्तम्भेत्यादि । वर्ण्यमानमचेतन- मपि स्तम्भपुलकादीति योजना । चेतनमाक्षिपत्येव चित्तवृत्तिविशेषगमकत्वेन चेत- नगमकं भवत्येव । तावदिति सम्प्रतिपत्तौ । किमत्रोच्यत इति । अनुभावस्य भावगमकतायाः प्रसिद्धत्वादत्र न किञ्चिद्वक्तव्यमित्यर्थः । विभावत्वेन योजना वि. णोति-मतिजड इत्यादि। 'वर्ण्यमानः स्वविश्रान्तोऽपि चन्द्रोद्यानप्रभृतिरिति सम्बन्धः । स्वविश्रान्तः वाच्यार्थबोधेन स्वस्मिन् पर्यवसितः । चित्तेति । चित्त-