पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
द्वितीयोद्द्योतः


 शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लादहेतुत्वात् । तत्प्रकाशनपर. शब्दार्थतया काव्यस्य स माधुर्यलक्षणो गुणः । श्रव्यत्वं पुनरोजसोऽपि साधारणमिति ।

शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः ॥ ८ ॥


लोचनम्

व्यञ्जकयोः शब्दार्थयोरुपचरितं मधुरशृङ्गाररसाभिव्यक्तिसमर्थता शब्दार्थयोर्माधुर्य मिति हि लक्षणम् । तस्माद्युक्तमुक्तं 'तमर्थमि'त्यादि । कारिकार्थ वृत्त्याह-शृङ्गार इति । ननु 'श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते' इति माधुर्यस्य लक्षणम् । नेत्याह- श्रव्यत्वमिति । सर्वं लक्षणमुपलक्षितम् । ओजसोऽपीति । 'यो यः शस्त्रं' इत्यत्र हि श्रव्यत्वमसमस्तत्वं चास्त्येवेति भावः ॥७॥

 सम्भोगशृङ्गारान्मधुरतरो विप्रलम्भः, ततोऽपि मधुरतमः करुण इति तदभिव्यञ्ज- नकौशलं शब्दार्थयोर्मधुरतरत्वं मधुरतमत्वं चेत्यभिप्रायेणाह-शृङ्गार इत्यादि । करुणे चेति चशब्दः क्रममाह । प्रकर्षवदिति । उत्तरोत्तरं तरतमयोगेनेति भावः । आर्द्र- तामिति । सहृदयस्य चेतः स्वाभाविकमनाविष्टत्वात्मकं काठिन्यं क्रोधादिदीप्तरूपत्वं

बालप्रिया

रेत्यादि । शृङ्गारेति । शृङ्गारादीत्यर्थः । लक्षणमिति । स्वरूपमित्यर्थः । अनेन 'तत्प्रकाशने त्यादि वृत्यर्थो दर्शितः । वृत्तौ 'रसान्तरापेक्षया प्रह्लादहेतु- त्वादिति सम्बन्धः । लोचने-नन्वित्यादि । नातिसमस्तार्थशब्दं मधुरमिति । काव्यमिति शेषः । इतीति । इति भामहोक्तमित्यर्थः । लक्षणमिति । श्रव्यत्वादिघ• टितलक्षणमित्यर्थः । एतदन्तः शङ्काग्रन्थः । नेत्याहेति । उक्तमतिव्याप्त्या लक्षणं न भवतीत्याहेत्यर्थः । सर्वमिति । श्रव्यमित्यादिनोक्तं सर्वमित्यर्थः । ओजस इति । ओजस्विनः काव्यस्येत्यर्थः । तदुदाहृत्यातिव्याप्ति दर्शयति-यो य इत्यादि । पद्यमिदं वृत्तावुदाहरिष्यते ॥ ७ ॥

 अवतारयति-सम्भोगेत्यादि । इतीति हेतौ । तदभीत्यादि । तत्पदेन मधुर- तरस्य मधुरतमस्य च रसस्य परामर्शः । क्रममाहेति । तथा च क्रमेण प्रकर्षवदि. त्यर्थः। तमेवाह-उत्तरोत्तरमिति । आर्द्रतामेतीत्येतद्वयाचष्टे-सहृदयस्येत्यादि । चेतस्त्यजतीति सम्बन्धः । स्वाभाविकं काठिन्यमिति । यथोक्तं भक्तिरसा- यने-"चित्तद्रव्यं तु कठिनं स्वभावादिति । क्रोधादीति । क्रोधाद्याहितं दीप्तत्वमि-


तम , प्रमाणाभावात् गुणे गुणान्तरानङ्गीकाराच्च । 'शृङ्गोरो मधुर' इत्यादिव्यवहारस्तु तत्त- बृत्तिविशेषप्रयोजकतया कथञ्चिदुपपादनीय इत्यलं भूम्ना । १. भामह, २,२,३.