पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
द्वितीयोद्योतः


मभिहितं स्यात् । यथा-

तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना
विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् ।

यथाविद्धं याति स्खलितमभिसन्धाय बहुशो
नदीरूपेणेयं ध्रुवमसहना सा परिणता ।।

यथा वा-

तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः
शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।


लोचनम्

भावे, ताक्च रसोऽत्रास्त्येव ।

 तरङ्गेति। तरङ्गा एव भ्रूभङ्गा यस्याः । विकर्षन्ता विलम्बमानं बलादाक्षिपन्ती। वसनमंशुकम् । प्रियतमावलम्बन निषेधायेति भावः । बहुशो यत्स्खलितं येऽपराधा- स्तानभिसन्धाय हृदयेनैकीकृत्यासहमाना मानिनीत्यर्थः । अथ च मद्वियोगपश्चात्तापा- सहिष्णुस्तापशान्तये नदीभावं गतेति ।

 तन्वीति । वियोगकृशाप्यनुतप्ता चाभरणानि त्यजति । स्वकालो वसन्तग्रीष्मप्रा.

बालप्रिया

शेषः। तादगिति। ध्वन्यात्मभूत इत्यर्थः । अत्रेति । वक्ष्यमाणोदाहरणेष्वित्यर्थः ।।

 तरङ्गति। 'असहना' सेयमुर्वशी। 'नदोरूपेण' नदीभावेनेति च पाठः । 'परिणता ध्रुव'मित्युत्प्रेक्षायाम् । इयं न नदी, किन्तु सा इति सम्भावयामीत्यर्थः । उक्तमुपपाद- यति-तरङ्गेत्यादि । तरङ्गादौ भ्रूभङ्गत्वाद्यारोपाद्रूपकम् । वसनमिवेत्युपमा। संरम्भेण कोपावेगेन शिथिलं शिथिलबन्धम् । 'यथेति । यत इत्यथः। तत इति शेषः। 'आविद्धं' कुटिलम् । यद्वा यथाविद्धमित्येकं पदम् । कौटिल्यमनतिक्रम्येत्यर्थः । 'स्खलितमभि- सन्धायेति । नदीपक्षे शिलादिस्खलनं प्राप्येत्यर्थः । लोचने-तरङ्गा इत्यादि । एवं क्षुभितविहगश्रेणिरेव रशना यस्या इति बोध्यम् । अपराधा इति । ममेति शेषः । मानिनीति । कोपवतीत्यर्थः । असहिष्णुरिति । असहिष्णुत्वादिवेत्यर्थः ।

 तन्वीति । अस्मात्पूर्वमियमिति वर्तते । 'इयं लता। 'चण्डी' अतिकोपना । अत एव पादपतितं मामवधूय तिरस्कृत्य स्थिता । अत एव जातानुतापा । 'सा' उर्वशी इव लक्ष्यते । एतदङ्गमुत्प्रेक्षात्रयं तन्वीत्यादिनोच्यते । तन्वीत्युभयसाधारणम् । इयं लता । मेघजालैरार्द्राः पल्लवा यस्यां तस्य भावः तत्ता, तया हेतुना । अश्रुभिः धौतः अधरो यस्याः सा इव । स्वकालविरहाद्विश्रान्तपुष्पोद्गमा इयमाभरणैः शून्येव । नायिकाया आभरणत्यागमुपपादयति-वियोगेति । वियोगकाश्र्यादनुतापाच्चेत्यर्थः ।

       २६ ध्व०