पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
सटीकलोचनोपेतध्वन्यालोके


तर्ह्युपमादीनां प्रविरलविषयता निर्विषयता वाभिहिता स्यात् । यस्मादचेतनव स्तुवृत्ते वाक्यार्थीभूते पुनश्चेतनवस्तुवृत्तान्तयोजनया यथाकथञ्चिद्भवितव्यम् । अथ सत्यामपि तस्यां यत्राचेतनानां वाक्यार्थीभावो नासौ रसवदलङ्कारस्य विषय इत्युच्यते । तत् महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्व


लोचनम्

'उत्तमयुवप्रकृतिरुज्ज्वलवेषात्मकः' इति चाभिधानात् । भावाभासाङ्गता यथा-

स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाअनरञ्जितेषु ।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ॥

 अत्र रौद्रप्रकृतीनामनुचितस्त्रासो भगवत्प्रभावकारणकृत इति भावाभासः ।एवं तत्प्रशमस्याङ्गत्वमुदाहार्यम् । मे मतिरित्यनेन यत्परमतं सूचितं तद्दूषणमुपन्यस्यति- यदीत्यादिना । परस्य चायमाशयः-अचेतनानां चित्तवृत्तिरूपरसाद्यसम्भवात्तद्वर्णने रसवदलङ्कारस्यानाशङ्कयत्वात्तद्विभक्त एवोपमादीनां विषय इति । एतत्दूषयति-- तर्हीति । तस्माद्वचनाद्धेतोरित्यर्थः । नन्वचेतनवर्णनं विषय इत्युक्तमित्याशङ्कय हेतुमाह-यस्मादिति । यथाकथञ्चिदिति विभावादिरूपतया । तस्यामिति ।चे- तनवृत्तान्तयोजनायाम् । नीरसत्वमिति । यत्र हि रसस्तत्रावश्यं रसवदलङ्कार इति परमतम् । ततो न रसवदलङ्कारश्चेन्नूनं तत्र रसो नास्तीति परमताभिप्रायान्नीरस- त्वमुक्तम् । न त्वस्माकं रसवदलङ्काराभावे नीरसत्वम् , अपि तु ध्वन्यात्मभूतरसा-

बालप्रिया

पूर्णो नेत्यर्थः । किन्त्वाभास इति भावः । उत्तमयुवेति । युवा च युवती च युवाना- वित्येकशेषोऽत्र बोध्यः । प्रकृते 'यथा तथा रञ्जये रित्यनेन प्रतीयमाननायिकाय। निर्गुणत्वादिक तम् ।

 स इति । सः भगवान् श्रीकृष्णः । यस्येति कर्तुः शेषत्वविषया षष्ठी। तत्तुः ल्येति । भगवद्वर्णतुल्येत्यर्थः । स्वेत्यादि । दृश्यमानेष्विति शेषः । इति भावा भास इति । तत्रासस्य भगवत्प्रभावविभावितायां रतौ गुणीभावाभावाभास ऊर्जस्व्य- लङ्कार इत्यर्थः । यदि त्वित्यादिग्रन्थेन गम्यमर्थमाह-परस्येत्यादि । तद्वर्णन इति । अचेतनवर्णन इत्यर्थः । तदिति । तद्वर्णनमित्यर्थः । विभक्त इति । रसवद- लङ्कारविविक्त इत्यर्थः । तदेवेति योजना । वृत्तौ शङ्कते-'अथेति । 'तस्यामिति । चेतन वस्तुवृत्तान्तयोजनायामित्यर्थः । 'असाविति । यत्रेत्यस्य प्रतिनिर्देशः। तन्म- हत इति । 'तत् तर्हि । 'महतः' भूयसः । नीरसत्वमभिहितं स्यादिति न स्वमतानु- रोधेन, किन्तु परमतानुरोधेनेत्याह लोचने-यत्र हीत्यादि । रस इति । प्रधानवा- क्यार्थ इति शेषः । परेति । भामहोद्भटादिमतमित्यर्थः । अस्माकमिति । मत इति