पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
द्वितीयोद्योतः


लोचनम्

न्ते । तत्र भावालङ्कारस्य शुद्धस्योदाहरणं यथा-

तव शतपत्रपत्रमृदुताम्रतलश्चरणश्चल कलहंसनूपुरकलध्वनिना मुखरः ।
महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरूता कथमम्ब गतः ॥

 इत्यत्र देवीस्तोत्रे वाक्यार्थीभूते वितर्कविस्मयादिभावस्य चारुत्वहेतुतेति तस्याङ्ग

त्वाद्भावालङ्कारस्य विषयः । रसाभासस्यालङ्कारता यथा ममैव स्तोत्रे-

समस्तगुणसम्पदः सममलङ्क्रियाणां गणै-
र्भवन्ति यदि भूषणं तव तथापि नो शोभसे ।
शिवं हृदयवल्लभं यदि यथा तथा रञ्जयेः
तदेव ननु वाणि ते भवति सर्वलोकोत्तरम् ॥

 अत्र हि परमेशस्तुतिमात्रं वाचः परमोपादेयमिति वाक्यार्थे शृङ्गाराभासश्चारुत्वहेतुः श्लेषसहितः । न ह्ययं पूर्णः शृङ्गारो नायिकाया निर्गुणत्वे निरलङ्कारत्वे च भवति ।

बालप्रिया

भावशान्तेरपराङ्गत्वे समाहित इति विवेकः । शुद्धस्येति । अलङ्कारान्तरेण अमि. श्रस्येत्यर्थः

 तवेति । हे अम्ब | तव । शतेत्यादि । शतपत्रं पद्म, तस्य पत्रमिव मृदु ताम्रं च तलमधोभागो यस्य सः। चलकलहंसतुल्यो नूपुरः तस्य ध्वनिना मुखरः स. शब्दः । चरणः महिषाख्यस्य महासुरस्य । शिरसि प्रसभं, निहितः सन् । कनकमयो महाश्च यो महीध्रः पर्वतः सुमेरुः तस्य । कनकमयत्वोक्त्या गौरवाधिक्यं द्योत्यते । गुरुती कथं गत इति सम्बन्धः । गुरुत्वप्राप्तिः महिषशिरोनिष्पीडनेन निश्चितेति भावः । देवीस्तोत्र इति । स्तूयमाने देवीप्रभावे तद्विषयकरतिभावे वेत्यर्थः । वित. र्केति । कथंपदेन वितर्कादिकं गम्यते । यद्यप्यत्र वितर्कादेः शतपत्रेत्यायुक्तोपमा. संसृष्टत्वाच्छुद्धत्वं दुर्घटं, तथापि मृदुताम्रतल इत्येतावन्मात्रोक्तावपि वितर्कादेः सम्भ- वादुपमायास्तदङ्गत्वाभावात्तदसङ्कीर्णत्वरूपं शुद्धत्वं सुघटम् ।

 समस्तेति । नायि कात्वमारोप्य स्ववाचं प्रत्युक्तिरियम् । ननु वाणि ! समस्तानां गुणानां माधुर्यादीनामथ च सौन्दर्यादीनां सम्पदः । अलङ्क्रियाणामनुप्रासोपमादीना- मथ च कटकादीनाम् । गणैः समं सह । तव भूषणं भवन्ति यदि यद्यपि, तथापि त्वं नो शोभसे । तर्हि कथं शोभा भवतीत्यत्राह- शिवमित्यादि। त्वं हृदयवल्लभं सर्वेषामात्मत्वेन प्रियम् । शिवं परमेश्वरमथ च मङ्गलाकारं प्रियतमम् । यथा तथा यथा कयापि विधया। गुणालङ्कारसाहित्ये नान्यथा वेत्यर्थः । रञ्जयेः गुणप्रतिपादनेन प्रसादयेः, अथ चानुरञ्जयेः । यदि तर्हि तदेव तदनुरञ्जनमेव । ते सर्वलोकोत्तरं भूषणं भवतीत्यर्थः । अत्र प्रतीयमानस्य शृङ्गारस्याभासत्वं ववृणोति-न हीत्यादि । हि यतः । नायिकाया निर्गुणत्वे निरलङ्कारत्वे च सति शृङ्गारः पूर्णो न भवति, अतोऽयं