पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
सटीकलोचनोपेतध्वन्यालोके


 तस्माद्यत्र रसादयो वाक्यार्थीभूताः स सर्वः न रसादेरलङ्कारस्य विषयः; स ध्वनेः प्रभेदः, तस्योपमादयोऽलङ्काराः। यत्र तु प्राधान्ये- नार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिष्पत्तिः क्रियते, स रसादे. रलङ्कारताया विषयः ।

 एवं ध्वनेरुपमादीनां रसवदलङ्कारस्य च विभक्तविषयता भवति । यदि तु चेतनानां वाक्यार्थीभावो रसाद्यलङ्कारस्य विषय इत्युच्यते


लोचनम्

शवशरीरं कुण्डलाद्युपेतमपि न भाति, अलङ्कार्यस्याभावात् । यतिशरीरं कटकादियुक्तं हास्यावहं भवति, अलङ्कार्यस्यानौचित्यात् । न हि देहस्य किञ्चिदनौचित्य मिति वस्तुत आत्मैवालङ्कार्यः, अहमलङ्कृत इत्यभिमानात् । रसादेरलङ्कारताया इति व्यधिक. रणषष्ठ्यौ, रसादेर्यालङ्कारता तस्याः स एव विषयः । एतदनुसारेणेव पूर्वत्रापि वाक्ये योज्यम् , रसादिकर्तृकस्यालङ्करणक्रियात्मनो विषय इति । एवमिति । अस्मदुक्तेन विषयविभागेनेत्यर्थः । उपमादीनामिति । यत्र रसस्यालङ्कार्यता रसान्तरं चाङ्गभूतं नास्ति तत्र शुद्धा एवोपमादयः । तेन संसृष्टया नोपमादीनां विषयापहार इति भावः । रसवदलङ्कारस्य चेति । अनेन भावाद्यलङ्कारा अपि प्रेयस्व्यूर्जस्विसमाहिता गृह्य-

बालप्रिया

यति-तथाहीत्यादि । अलङ्कार्यस्याभावादिति । शवशरीस्याचेतनत्वादिति भावः । अनेन चेतन एवालङ्क्रियत इत्युक्तमुपपादितम् । यतिशरीरमित्यादि । कटकादयो हि रागित्वस्यौचित्यं सूचयन्ति । यतेरात्मनश्च रागित्वमनुचितमित्यतो यति. शरीरगताः कटकादयो हास्यावहा इत्यर्थः । तत्तच्चेतनशरीरगतैः कटककुण्डलादिभिः सूच्यस्य रागित्वादिचित्तवृत्तिविशेषस्य तत्तच्चेतनोचितत्वे तेषामलङ्कारता, अन्यथा हास्यावहतेति भावः । अनुभवरूपप्रमाणमप्याह-महमित्यादि । व्यधिकरण- षष्ठयाविति । न तु समानाधिकरणे तत्पदे इति भावः। व्याचष्ट्र-रसादेरिति । रसादिनिष्ठा या अलङ्कारता अलक्रियाकर्तृत्वं रसादिकर्तृ कालङ्क्रियेति यावत् । स एव तस्या विषय इति सम्बन्धः । स इति वृत्तिस्थस्यानुवादः, यत्रेत्यस्य प्रतिनिर्देशः तत्काव्यमित्यर्थः । विषयः आश्रयः। पूर्वत्रेति । स सर्वो न रसादेरलङ्कारस्य विषय इति वाक्य इत्यर्थः । योजनामाह-रसादीति । अस्मिन्वाक्येऽपि 'स' इति यत्रेत्यस्य प्रतिनिर्देशः । उपमादीनां रसवदादिविविक्तं विषयं दर्शयति-यत्रेत्यादि । संसृष्टयेति । रसवदादिसंसृष्टयेत्यर्थः । भावाद्यलङ्कारा इत्यस्यैव विवरणम्-प्रेय- स्व्यूर्जस्विसमाहिता इति । समाहितादय इति च पाठः । भावस्यापरराङ्गत्वे भावा. लङ्कारः, स एव प्रेयस्वी प्रेयानिति चोच्यते । रसाभासभावाभासयोरपराङ्गत्वे ऊर्जस्वी ।