पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
द्वितीयोद्द्योतः


यत्र हि रसस्य वाक्यार्थीभावस्तत्र कथमलङ्कारत्वम् ? अलङ्कारो हि चारु- त्वहेतुः प्रसिद्धः; न त्वसावात्मैवात्मनश्चारुत्वहेतुः ।

 तथा चायमत्र संक्षेपः-

रसभावादितात्पर्यमाश्रित्य विनिवेशनम् ।
अलङ्कृतीनां सर्वासामलङ्कारत्वसाधनम् ॥


लोचनम्

साध्य एवंविध एवेति यदुक्तं तत्रैवकारस्याभिप्राय व्याचष्टे-यत्र हीति । सर्वा. सामुपमादीनाम् ।

 अयं भावः-उपमादीनामलङ्कारत्वे यादृशो वार्ता तादृश्येव रसादीनाम् । तदव- श्यमन्येनालङ्कार्येण भवितव्यम् । तच्च यद्यपि वस्तुमात्रमपि भवति, तथापि तस्य पुनः रपि विभावादिरूपतापर्यवसानासादितात्पर्यमेवेति सर्वत्र रसध्वनेरेवात्मभावः । तदुक्तं रसभावादितात्पर्यमिति । तस्येति । प्रधानस्यात्मभूतस्य । एतदुक्तं भवति-उपमया यद्यपि वाच्योऽर्थोऽलङ्कियते, तथापि तस्य तदेवालङ्करणं यद्वयङ्गयार्थाभिव्यञ्जनसाम- थ्याधानमिति वस्तुतो ध्वन्यात्मैवालङ्कार्यः । कटककेयूरादिभिरपि हि शरीरसमवायि- भिश्चेतन आत्मैव तत्तचित्तवृत्तिविशेषौचित्य सूचनात्मतयालङ्क्रियते । तथाहि-अचेतनं

बालप्रिया

रसवदादीनामलङ्कृतीनामित्यर्थभ्रमः स्यादतो व्याख्याति–उपमादीनामित्यादि । उपमादीनां रसवदादीनां चेत्यर्थः ।

 'रसभावे' त्यादिकमवतारयिष्यन्नाह-अयं भाव इत्यादि। यादशी वार्तेति । यो हेतुरित्यर्थः । स चान्योपस्कारः। तच्चेति । अलङ्कार्य चेत्यर्थः । वस्तुमात्र- मिति । यथा कि हास्येने त्यादौ नरपतिप्रभावादि । तस्येति । वस्तुन इत्यर्थः । रसध्वनेरिति । रसभावादिध्वनेरित्यर्थः । ' किं हास्येने त्यादौ वर्णनीयराजविषयक- रतिभावो हि वक्तृगतस्तत्प्रभावविभावितः प्रधानभूतः। उपमयेति । उपमादिने- त्यर्थः । तस्येति । वाच्यार्थस्येत्यर्थः । व्यङ्गयार्थेति । रसादीत्यर्थः । वर्ण्यमाना. स्तत्तद्वाच्यार्था उपमाद्यलङ्कारैराहितातिशयाः कवितन्नबद्धान्यतरगतचित्तवृत्तिविशेषं स्फुटं व्यञ्जयन्ति क्वचिदर्थान्तरञ्चेति व्यङ्गयाभिव्यञ्जनसामाधानं वाच्यार्थस्योप- मादिकर्तृ कमलङ्करणमित्यर्थः । ध्वन्यात्मेति । ध्वनिरूप आत्मेत्यर्थः । उक्तार्थे लौकिकं दृष्टान्तं दर्शयति कटकेत्यादि । आत्मैव न शरीरम् । कथमात्मालङ्क्रियत इत्य- त्राह-तत्तदिति । तत्तदात्मगता रागित्वादयो ये चित्तवृत्तिविशेषाः, तेषां यदौचित्यं तत्सूचनात्मतया तत्सूचनस्वभावकतया । तत्तदलङ्कारा ह्यस्येयं चित्तवृत्तिरुचितेति सूच- यन्ति; यथा युवजनशरीरगता हारकटककुण्डलादयः तदागित्वस्यौचित्यं यतिशरीर- गता दण्डकषायवनादयस्तद्वैराग्यस्यौचित्यं चेति तत्सूचकत्वेनेत्यर्थः । उक्तमुपपाद