पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
सटीकलोचनोपेतध्वन्यालोके


आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥

 इत्यत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्याविप्रलम्भस्य श्लेष- सहितस्याङ्गभाव इति, एवंविध एव रसवदाद्यलङ्कारस्य न्याय्यो विषयः । अत एव चेार्ष्याविप्रलम्भकरुणयोरङ्गत्वेन व्यवस्थानात्समावेशो न दोषः ।


लोचनम्

प्रत्यालिङ्गनेन, इतरत्र सर्वाङ्गधूननेन विशरारूकृतः । साश्रुत्वमेकत्रेर्ष्य॑या अन्यत्र नि- ष्प्रत्याशतया । कामीवेत्यनेनोपमानेन श्लेषानुगृहीतेनेाविप्रलम्भो य आकृष्टस्तस्य श्लेषोपमासहितस्याङ्गत्वम् , न केवलस्य । यद्यप्यत्र करुणो रसो वास्तवोऽप्यस्ति तथापि स तच्चारुत्वप्रतीत्यै न व्याप्रियत इत्यनेनाभिप्रायेण श्लेषसहितस्येत्येतावदेवा- वोचत्, न तु करणसहितस्येत्यपि । एतमर्थमपूर्वतयोत्प्रेक्षितं द्रढीकर्तुमाह-एवं विध- एवेति । अत एवेति। यतोऽत्र विप्रलम्भस्यालङ्कारत्वं न तु वाक्यार्थता, अतो हेतो- रित्यर्थः । न दोष इति । यदि ह्यन्यतरस्य रसस्य प्राधान्यमभविष्यन्न द्वितीयो रसः समाविशेत् । रतिस्थायिभावत्वेन तु सापेक्षभावो विप्रलम्भः, स च शोकस्थायिभाव- त्वेन निरपेक्षभावस्य करुणस्य विरुद्ध एव । एवमलङ्कारशब्दप्रसङ्गेन समावेशं प्र.

बालप्रिया

'शराग्निः वः दुरितं दहत्विति सम्बन्धः । स कः ? य आर्द्रः तत्कालभवः अपराधो यस्य सः । कामीव हस्तावलग्नः सन् । साश्रुणी नेत्रोत्पले यासां ताभिः । त्रिपुर- युवतिभिः क्षिप्त इत्याद्यन्वयः। तत्र क्षिप्तपदार्थमाह-कामीत्यादि । इतरत्रेति । शराग्निपक्षे इत्यर्थः । वृत्युक्तमेवाङ्गभावं स्वयं दर्शयति-कामीवेत्यादि । आकृष्टः स्फुटं व्यञ्जितः। तस्य ईर्ष्याविप्रलम्भस्य । 'श्लेषसहितस्ये त्यस्य विवरणम्- श्लेषेत्यादि । अङ्गत्वमिति । त्रिपुररिपुप्रभावातिशयरूपवाक्यार्थ प्रत्यङ्गत्वमित्यर्थः । न केवलस्येति । तस्याङ्गत्वमित्यनयोरनुषङ्गः । करुणो रसोऽप्यस्तीति । तथा च तत्सहितस्येत्यपि वक्तव्यमिति भावः । स इति । करुण इत्यर्थः । तच्चारुत्व- प्रतीत्यै विप्रलम्भचारुत्वप्रतीत्यै । न व्याप्रियत इति । करुणस्यात्र विप्रलम्भाङ्गत्वं नास्तीति भावः । 'अत एवेत्येतव्याचष्टे-यत इत्यादि । वाक्यार्थतेति । अलङ्कार्य- त्वेन प्राधान्यमित्यर्थः । अन्यतरस्य रसस्येति । विप्रलम्भकरुणयोरेकस्येत्यर्थः । प्राधान्यं समप्राधान्यम् । द्वितीय इति । तयोरेकस्मादपर इत्यर्थः । न समावि- शेदिति । एकत्र काव्य इति शेषः । अत्र हेतुमाह-रतीत्यादि । विषयोऽयं तृती- योद्योते वक्ष्यते । 'रसे'त्यादिकारिका परिकर श्लोकः । तत्र सर्वासामलङ्कृतीनामित्यस्य