पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
द्वितीयोद्योतः


सङ्कीर्णो रसादिरङ्गभूतो यथा-

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
 गृह्णन् केशेवपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।


लोचनम्

सद्भाव इति दर्शयति-एवमिति । यत्र राजादेः प्रभावख्यापनं तादृश इत्यथः ।  क्षिप्त इति । कामिपक्षेऽनादृतः, इतरत्र धुतः। अवधूत इति न प्रतीप्सितः

बालप्रिया

 क्षिप्त इत्याद्यमरुकस्थम् । सः त्रिपुरदाहकालीनः । शाम्भवः शम्भुसम्बन्धी ।


लोकेऽलङ्कृतिव्यपदेशभाजां भवन्ति, तथाऽनुप्रासोपमादयो वाच्यवाचकरूपाङ्गोपस्का- रद्वाराऽङ्गिभूतरसमुपस्कुर्वाणा एव शास्त्रेऽलङ्कारतया व्यवह्रियन्त इति रसादीनां सा. क्षादुपकारकत्वेन वाच्यवाचकाङ्गद्वारोपस्कारकत्वाभावेन तेषामलङ्कारव्यवहारो निर्युः -क्तिक एवेति ।

 अन्ये त्वाचक्षते-चिरन्तनव्यवहारानुरोधेन रसोपकारकत्वमात्रात् गुणीभूतर- सेषु भाक्तोऽलङ्कारव्यवहारः कथञ्चिदभ्युपगन्तव्य इति ।

 अपरे ब्रुवते-रसोपकारकत्वमात्रेण मुख्यमलकारत्वं, तच्च रसादिष्वप्यस्त्येव । रूपकोपमादिषु अजागलस्तनन्यायेन मुधैव वाच्याद्युपधानाभिधानम् इति ।

 काव्यप्रकाशकृद्भिरपि 'उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित्' इत्यलङ्कार- लक्षणमभ्यधायि । एतन्मतेऽलङ्कारविशिष्टशब्दार्थज्ञानत्वेन चमत्कारत्वेन कार्यकारण- तथा च परिष्कुर्वन्त्यलङ्कार लक्षणम्-समवायसम्बन्धावच्छिन्नच- मरकृतित्वावच्छिन्नजन्यतानिरूपितसमवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नजनकता. निरूपितविषयित्वसम्बन्धावच्छिन्नशब्दार्थान्यतरनिष्ठावच्छेदकतानिरूपितावच्छेदकता. वत्त्वमलङ्कारत्वमिति । व्यङ्ग्यविशिष्टशब्दार्थज्ञानत्वेन चमत्कारत्वेन कार्यकारणभावा- भ्युपगमात् व्यङ्गयभिन्नेत्यपि लक्षणे निवेशयन्ति । चमत्कारत्वावच्छिन्नं प्रति रसवि. शिष्टशब्दार्थज्ञानत्वेन कार्यकारणभावाभ्युपगमे प्रमाणाभावात् रसज्ञानत्वेनैव च तत्स्वी. कारात् व्यङ्गये रसभिन्नत्वविशेषणदानं नात्युचितम् । प्रकाशे पञ्चमोल्लासे 'कश्चिद्: ब्रूयादि' त्येवमुक्त्या रसादीनामलङ्कारत्वे स्वानभिसन्धिः सुस्पष्टमुदीरितः । सुधासाग- रमनीषाकारैः पण्डितभीमसेननरसिंहठक्कुरादिभिश्च तत्रत्यो ग्रन्थ इत्थमेव व्याख्यातः । गुणीभूतरसस्थले तादृशरसविशिष्टशब्दार्थज्ञानत्वेन चमत्कारत्वेन कार्यकारणभावोऽस्ति च तादृशरसविशिष्टशब्दार्थज्ञानत्वेन चमत्कारं प्रत्यसौ नास्तीति नि- र्युक्तिकं कः श्रद्द्धीत । रसोपकारकत्वमात्रेणालङ्कारत्वव्यवहारो गुणेष्वपि अतिव्या. प्नुवन् कथङ्कारं निराकार्यं इति गुणीभूतरसादीनां गुणाभूतव्यङ्गयत्वमेव नालङ्कारत्वम् इति काव्यप्रकाशादिप्रामाणिकनिबन्धरहस्यमप्य त्रानुसन्धेयम् । भावः फलति । प्रधानीभूतरसस्थले