पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
द्वितीयोद्द्योतः


र्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते । स च रसादिरलङ्कारः शुद्धः सङ्कीर्णो वा । तत्राद्यो यथा-

किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं
केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः।

स्वप्नान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो
बुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥।

इत्यत्र करुणरसस्य शुद्धस्याङ्गभावात्स्पष्टमेव रसवदलङ्कारत्वम् । एव.
मेवंविघे विषये रसान्तराणां स्पष्ट एवाङ्गभावः ।


लोचनम्

 शुद्ध इति । रसान्तरेणाङ्गभूतेनालङ्कारान्तरेण वा न मिश्रः, आमिश्रस्तु सङ्कीर्णः । स्वप्नस्यानुभूतसदृशत्वेन भवनमिति हसन्नेव प्रियतमः स्वप्नेऽवलोकितः, । न मे प्र- यास्यसि पुनरिति । इदानीं त्वां विदितशठभावं बाहुपाशबन्धान्न मोक्ष्यामि । अत एव रिक्तबाहुवलय इति । स्वीकृतस्य चोपालम्भो युक्त इत्याह-केयं निष्करुणेति । केनासीति । गोत्रस्खलनादावपि न मया कदाचित्खेदितोऽसि । स्वप्नान्तेषु स्वप्ना- यितेषु सुप्तप्रलपितेषु पुनःपुनरुद्भूततया बहुष्विति वदन्युष्माकं सम्बन्धी रिपुस्त्रीजनः

बालप्रिया

त्यर्थः । प्रेयश्शब्देनेति । प्रेयोलङ्कारस्यापीत्यपिशब्दसहितप्रेयश्शब्देन चेत्यर्थः । रसाद्यलङ्कारा इति । रसवदाद्यलङ्कारा इति च पाठः । तदेवेति । उक्ताभिप्रा- यादेवेत्यर्थः । पूरयति-उक्तविषय इति । चाटुस्थल इत्यर्थः । गुर्वादिविषयकप्रीतिव र्णनमेव प्रेयोलङ्कारः, चाटुस्थले तस्य प्राधान्येऽपि रसादयस्तत्प्रीतेस्तद्विषयनरपतिप्रः भावादेर्वा अङ्गभूताश्चेति भामहमतानुरोधेन पङ्क्त्यर्थः । रतिहासादितत्तद्भाववर्णनं भावालङ्कारः, स एव प्रेयोलङ्कारः; चाटुस्थले 'किं हास्येने त्यादौ चाटुर्वाक्यार्थः, तत्र रसवदलङ्कारः भावालङ्कारश्च स्त इत्युद्भटमतानुरोधेन पङ्क्त्यर्थ इति सारार्थः ।

 वृत्तौ ‘स चेत्यादि । 'अलङ्कारः स रसादिरि ति योजना। चशब्दो वाक्यालङ्कारे । वेति । वा शब्दः समुच्चये । 'उदाहरति किमिति' इति पाठः क्वचिन्नास्ति । दृष्टं प्रियतम प्रत्याह-किमित्यादि । हास्येन किमिति । हासेन साध्यमिदानीं नास्तीत्यर्थः। हासवत्वेन दर्शनस्योपपत्तिमाह-स्वप्नस्येत्यादि । न मे इत्यादि । त्वमितः परं मत्तो न यास्यसीत्यर्थः । अस्य भावमाह-हदानीमित्यादि । विदितः शठभावो यस्य तम् । "गूढविप्रियकृच्छठ" इति दशरूपके । उक्तार्थे गमकमाह- अत एवेति । स्वीकृतस्येति । स्वीयजनस्येत्यर्थः, कर्मणि षष्ठी । 'इयं प्रवासरू- चिता केति सम्बन्धः । केति । अनुचितेत्यर्थः । केनेत्यादेर्भावमाह-गोत्रेत्यादि ।

 २५ ध्व०