पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

तिवर्णनं प्रेयोलङ्कार इत्युक्तम् । तत्र प्रेयानलङ्कारो यत्र स प्रेयोलङ्कारोऽलङ्करणीय इहो. क्तः । न त्वलकारस्य वाक्यार्थत्वं युक्तम् । यदिवा वाक्यार्थत्वं प्रधानत्वम् । चम- त्कारकारितेति यावत् । उद्भटमतानुसारिणस्तु भङ्क्यत्वा व्याचक्षते-वाटुषु चाटुविषये वाक्यर्थत्वे चाटूनां वाक्यार्थत्वे प्रेयोलङ्कारस्यापि विषय इति पूर्वेण सम्बन्धः । उद्भ टमते हि भावालङ्कार एव प्रेय इत्युक्तः, प्रेम्णा भावानामुपलक्षणात् ।न केवलं रस- वदलङ्कारस्य विषयः यावत्प्रेयःप्रभृतेरपीत्यपिशब्दार्थः । रसवच्छब्देन प्रेयःशब्देन च सर्व एव रसवदाद्यलङ्कार। उपलक्षिताः, तदेवाह-रसादयोऽङ्गभूता दृश्यन्त इति उक्तविषय इति शेषः ।

बालप्रिया

इत्युक्तमिति ।

"प्रेयोगृहागतं कृष्णमवादीद्विदुरो यथा ।
अद्य या मम गोविन्द जाता त्वयि गृहागते ॥
कालेनैषा भवेत् प्रीतिः तवैवागमनात्पुनः" ॥

 इति ग्रन्थेन दर्शितमित्यर्थः । तत्र तद्वचने सती । चाटुस्थले 'किं हास्येनेत्यादौ वर्ण्यमाननरपतिप्रभावादेरेव वाक्यार्थता न तु प्रेयोरूपालङ्कारस्येत्यतः तत्पदं बहुव्री हित्वाश्रयेण व्याचष्टे-प्रेयानित्यादि । इहेति । चाटुष्वित्यादिवाक्य इत्यर्थः । वाक्यार्थत्वं मुख्यतया वाक्यप्रतिपाद्यत्वम् । प्रेयानलङ्कारः प्रेयोलङ्कार इति यथाश्रु तार्थाभिप्रायेणाह-यदि वेति । प्रधानत्वमेव विवृणोति-चमदिति । अहो नरपतेः प्रभावो येनैवं दुर्दशा रिपुस्त्रीजनोऽनुभवतीति प्रभावालम्बितायाः प्रीतः रिपुस्त्रीजन: त्तान्तविषयकत्वाचमत्कारित्वं बोध्यम् । भङ्क्त्वेति । वाक्यं भित्वेत्यर्थः । व्याख्यानं दर्शयति-चाटुष्वित्यादि । वाक्यार्थत्वे वाक्यप्रतिपाद्यत्ये । फलितमाह-चाटूनां वाक्यार्थत्व इति । चाटुर्नाम श्लाघ्यमानोऽर्थो वर्ण्यमाननरपतिप्रभावादिः । शब्दो भिन्नक्रम इत्याह-प्रेयोलङ्कारस्थापीति । प्रेयोरूपालङ्कारस्यापीत्यर्थः । कुत्रास्य सम्बन्ध इत्यत आह-विषय इत्यादि । एकवचनान्ततयानुषक्तविषयपदेन सम्बन्ध इत्यर्थः । चाटुरिति शेषः, चाटुकाव्यमित्यर्थः । प्रेय इत्युक्त इति । प्रेयोल- ङ्कारत्वेनोक्त इत्यर्थः । प्रेयस्वीत्युक्त इति च पाठः । अत्र हेतुमाह-प्रेम्णेत्यादि । प्रेम्णा प्रेयश्शब्दार्थघटकरतिरूपप्रेम्णा । उपलक्षणादिति । यथोक्तमुद्भटेन-

"रत्यादिकानां भावानामनुभावादिसूचनैः ।
यत्काव्यं बध्यते सद्भिः तत्प्रेयस्वदुदाहृत"मिति ॥

 रत्यादिकानामित्यादिशब्देनान्येषां स्थायिनां व्यभिचारिणां सात्विकानां च, अनु- भावादीत्यादिशब्देन विभावव्यभिचारिस्वशब्दानां च ग्रहणमत्र भावानामलङ्कारतेति च तद्व्याख्याता प्रतीहारेन्दुराजः । प्रेयोलङ्कारस्यापीत्यपिशब्दार्थमाह-न केवलमि- त्यादि । रसवच्छब्देनेति । यद्यपि रसवदलङ्कारस्येति पूर्ववृत्तिग्रन्थस्थरसवच्छब्देने- अपि