पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
द्वितीयोद्द्योतः


प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ ५ ॥

 यद्यपि रसवदलङ्कारस्यान्यैर्दर्शितो विषयस्तथापि यस्मिन् काव्ये प्रधा- नवयान्योऽर्थो वाक्यार्थीभूतस्तस्य चाङ्गभूता ये रसादयस्ते रसादेरलङ्का- रस्व विषया इति मामकीनः पक्षः । तद्यथा चाटुषु प्रेयोलङ्कारस्य वाक्या


लोचनम्

अन्यत्रेति । रसस्वरूपे वस्तुमात्रेलङ्कारतायोग्ये वा। मे मतिरित्यन्यपक्षं दूष्यत्वेन हृदि निधायाभीष्टत्वात्स्वपक्षं पूर्व दर्शयति-तथापीति । स हि परदर्शितो विषयो भाविनीत्या नोपपन्न इति भावः। यस्मिन् काव्ये इति स्पष्टत्वेनासङ्गतं वाक्य मित्थं योजनीयम्-यस्मिन् काव्ये ते पूर्वोक्ता रसादयोऽभूता वाक्यार्थीभूतश्चान्योऽर्थः, चशब्दस्तुशब्दस्यार्थे; तस्य काव्यस्य सम्बन्धिनो ये रसादयोऽङ्गभूतास्ते रसादेरल. ङ्कारस्य रसवदाद्यलङ्कारशब्दस्य विषयाः; स एवालङ्कारशब्दवाच्यो भवति योऽभूतः, न त्वन्य इति यावत् । अत्रोदाहरणमाह-तद्यथेति । तदित्यङ्गत्वम् । यथात्र वक्ष्य- माणोदाहरणे, तथान्यत्रापीत्यर्थः । भामहाभिप्रायेण चाटुषु प्रेयोलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽभूता दृश्यन्ते इतीदमेकं वाक्यम् । भामहेन हि गुरुदेवनृपतिपुत्रविषयप्री-

बालप्रिया

 कारिकायामन्यत्रेत्यस्य रसादिभ्योऽन्यस्मिनित्यर्थः । तथाविधो वाक्यार्थस्त्रिविधो भवतीत्याह-रसस्वरूप इत्यादि । अलङ्कारतायोग्य इति । उपमादावित्यर्थः । उपमादेः प्राधान्येन ध्वन्यमानत्वेऽलङ्कारत्वाभावाद्योग्य इत्युक्तम् । मे मतिरितीति । मे मतिरित्यनेनेत्यर्थः । अन्यपक्षमिति । वक्ष्यमाणं पक्षान्तरमित्यर्थः । तथापीति। इदं प्रतीकधारणम् । भावार्थमाह-स हीत्यादि । असङ्गतमिति । तस्य चाङ्गभूता इत्यत्र तत्पदेन काव्यस्यैव परामृश्यतया यथाश्रूते तदर्थस्य तन्निरूपिताङ्गत्वस्य रसा. दावसम्भवेनासङ्गतार्थकमित्यर्थः । ते इत्यादि । ते रसादयोऽङ्गभूता इत्यस्य पूर्ववाक्ये- ऽपि सम्बन्ध इति भावः । ते इत्यस्य व्याख्यानम्-पूर्वोक्ता इति । रसभावेत्यादि. कारिकानिर्दिष्टा इत्यर्थः । अन्यः रसादिभ्योऽन्यः । च शब्द इति । 'तस्य चेति च शब्द इत्यर्थः। तस्येत्यस्य व्याख्या-काव्यस्येति । 'सम्बन्धिन' इति षष्ठयर्थक- थनम् । तथाच तस्येति षष्ठयन्तार्थस्य काव्यसम्बन्धित्वस्य रसादावन्वयानासङ्गतार्थ- कत्वमिति भावः । अङ्गभूता इति । वाक्यार्थस्यान्यस्याङ्गभूता इत्यर्थः । रसादेरि- त्यस्य विवरणम्-रसवदादीति । फलितमाह-स एवेत्यादि । चाटुष्वित्यादि. ग्रन्थं व्याख्यातुमुपक्रमते-भामहेत्यादि । चाटुष्वित्यादि दृश्यन्त इत्यन्तमेकं वाक्य- मिति च पाठः । विवृणोति-भामहेनेत्यादि । गुर्विति । गुर्वादिविषयिका या प्रीति- र्भक्तिवात्सल्यादिपदवाच्या, तस्याः स्ववाचकेन विभावादिद्वारेण वा वर्णनमित्यर्थः ।