पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
सटीकलोचनोपेतध्वन्यालोके


 रसभावतदाभासतत्प्रशमलक्षणं मुख्यमर्थमनुवर्तमाना यत्र शब्दार्था- लङ्कारा गुणाश्च परस्परं ध्वन्यपेक्षया विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति व्यपदेशः ।


लोचनम्

रस्यमानतोदितचमत्कारानतिरिक्तत्वाद्भोगस्येति । सत्त्वादीनां चााशिभाववैचित्र्यस्या नन्त्याद्रुत्यादित्वेनास्वादगणना न युक्ता । परब्रह्मास्वादसब्रह्मचारित्वं चास्त्वस्य रसास्वादस्य । व्युत्पादनं च शासनप्रतिपादानाभ्यां शास्त्रेतिहास कृताभ्यां विलक्षणम् । यथा रामस्तथाहमित्युपमानातिरिक्तां रसास्वादोपायस्वप्रतिभाविजृम्भारूपां व्युत्पत्ति मन्ते करोतीति कमुपालभामहे । तस्मात्स्थितमेतत्-अभिव्यज्यन्ते रसाः प्रतीत्यैव च रस्यन्त इति । तत्राभिव्यक्तिः प्रधानतया भवत्वन्यथा वा । प्रधानत्वे ध्वनिः, अन्यथा रसाद्यलङ्काराः । तदाह-मुख्यमर्थमिति । व्यवस्थिता इति । पूर्वोक्त युक्तिभिर्विभागेन व्यवस्थापितत्वादिति भावः ॥ ४ ॥

बालप्रिया

मूर्धाभिषिक्तः प्रधानहेतुः । काव्य तु तदाश्रयतया सहकारीति भावः। तच्चेद. मिति । भवदुक्तमित्यर्थः । रस्येति । रस्यमानतया हेतुना उदितो यश्चमत्कारः चमत्कारात्मकः साक्षात्कारः तदनतिरिक्तत्वात्तदभिन्नत्वादित्यर्थः । दुतिविस्तारेत्यादिपू. र्वोक्तं मनसि कृत्याह-सत्वादीनामित्यादि । अङ्गाङ्गिभावेति। न्यूनाधिकते- त्यर्थः । आनन्त्यादिति । असंख्यत्वादित्यर्थः । द्रुत्यादित्वेनेति ।दुतित्वादिरूपे- णेत्यर्थः । न युक्तेति । कारणस्यानन्त्यात्का भूतचित्तवृत्तीनामपि आनन्त्यसम्भवा- दिति भावः । भट्टनायकोक्तं कञ्चिदंशमभ्युपगच्छति-परेति । व्युत्पत्तिर्नामाप्रधानमिति तदुक्तं मनसिकृत्याह-व्युत्पादनं चेत्यादि । काव्यस्येति शेषः । शासनेति । शास्त्रेण शासनमितिहासेन प्रतिपादनं ताभ्यां विलक्षणमित्यर्थः। वैलक्षण्यं दर्शयन्नाह- यथेत्यादि । अहमित्यस्यानन्तरं वर्तेय इति शेषः । रामेणेव मयानुष्ठातव्यमित्यर्थः । इतीत्यादि । इति यदुपमानमित्याकारिका या उपमितिः सादृश्यधीः शास्त्रेतिहा- साभ्या क्रियमाणा तदतिरिक्तामित्यर्थः । उक्तोपमितिमात्रं न, किन्तु ततोऽधिकामिति यावत् । रसेति । रसास्वादोपायभूता स्वस्य प्रतिपत्तुः या प्रतिभा तस्या विजृम्भी विकासस्तद्रूपामित्यर्थः । करोतीति । काव्यमिति शेषः । पुनः पुनः काव्यपरिशीलने हि रसास्वादोपायस्वप्रतिभाविकासो भवति । अन्ते करोतीत्यनेनादावुक्तोपमितिरूपां व्युत्पत्तिं च करोतीति ज्ञाप्यते । उपसंहरति-तस्मादित्यादि । इत्येतस्थितमिति सम्बन्धः। अभिव्यज्यन्ते रसा इति । अभिव्यक्तिविषयताविशिष्ट स्थायिनो रसप. दार्था इत्यर्थः । अभिव्यक्तिर्घटप्रदीपन्यायेनेति वक्ष्यते । प्रतीत्येत्यादि । प्रतीतिरूपैव रसनेत्यर्थः । तत्राभिव्यक्तिः प्रधानतया भवत्यन्यथा वेति । अन्यथा अप्रधा- नतया । अप्रधानतया वा इति च पाठः ॥ ४ ॥ न्यूनाधिकते. -