पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
द्वितीयोद्द्योतः


लोचनम्

तत्र भवतैव भावनादुत्पत्तिपक्ष एव प्रत्युज्जीवितः। न च काव्यशब्दानां केव लानां भावकत्वम् , अर्थापरिज्ञाने तदभावात् । न च केवलानामर्थानाम् , शब्दान्तरे- णार्प्य॑माणत्वे तदयोगात् । द्वयोस्तु भावकत्वमस्माभिरेवोक्तम् । 'यत्रार्थः शब्दो वा तमर्थ व्यङ्क्तः' इत्यत्र । तस्माद्यञ्जकत्वाख्येन व्यापारेण गुणालङ्कारौचित्यादिकयेतिकर्तव्य- तया काव्यं भावकं रसान् भावयति, इति त्र्यंशायामपि भावनायां करणाशे ध्वननमेव निपतति । भोगोऽपि न काव्यशब्देन क्रियते, अपि तु घनमोहान्ध्यसङ्कटतानिवृत्तिद्वारे। णास्वादापरनाम्नि अलौकिके द्रुतिविस्तरविकासात्मनि भोगे कर्तव्ये लोकोत्तरे ध्वनन- व्यापार एव मूर्धाभिषिक्तः । तच्चेदं भोगकृत्त्वं रसस्य च्वननीयत्वे सिद्धे दैवसिद्धम् ।

बालप्रिया

'भवतैव प्रत्युज्जीवित' इत्यन्वयः । अत्र हेतुः-भावनादिति । काव्यस्य रसोत्पादक- त्वाङ्गीकारादित्यर्थः । शब्दान्तरेणेति । लौकिकवाक्येनेत्यर्थः । शब्दार्थमयं काव्यं गुणालङ्कारसाहित्येन सहृदयानां रसचर्वणां जनयतीत्याह-तस्माद्वयञ्जकत्वाख्येने. त्यादि । यागादिधर्मो यजेतेत्यादिवैदिकवाक्येन स्वर्गादिकमुद्दिश्य पुरुषं प्रति विधो- यते । तथाहि-यजेतेत्यत्रास्त्यंशद्वयम्-यजिधातुः प्रत्ययश्च । प्रत्ययेऽप्यस्त्यंशद्वय- माख्यातत्वं लिङ्त्वं च । उभाभ्यामप्यंशाभ्यां भावनैवोच्यते। भावना नाम भवि- तुर्भवनानुकूलो व्यापारः । सा चार्थो शाब्दीति द्विविधा । आर्थी तु प्रयोजनेच्छाजनित- क्रियाविषयकव्यापाररूपा आख्यातत्वेन रूपेणोच्यते । सा ह्यंशत्रयमपेक्षते-साध्यं साधनमितिकर्तव्यतां च । किं केन कथं भावयेदिति । तत्र साध्याकाङ्क्षायां स्वर्गादिक मिष्टं साध्यत्वेन । साधनाकाङ्क्षायां धात्वर्थो यागादिः करणत्वेन, इतिकर्तव्यता- काङ्क्षायां प्रयाजादिक्रियाकलापश्च इतिकर्तव्यतात्वेन तस्यां भावनायामन्तीति मीमांसकाः प्राहुः । तथा च यजेतेत्यादिवैदिकवाक्यं स्वर्गमुद्दिश्य पुरुषं प्रति विधायकत्वेन यथा भावकं यागेन करणेन प्रयाजादीतिकर्तव्यतया स्वर्गार्थिनः स्वर्ग भावयति, तथा काव्यं भावकं व्यञ्जकत्वव्यापारेण करणेन गुणालङ्कारौचित्यादि- रूपया इतिकर्तव्यतया सहृदयस्य रसं भावयतीत्यर्थः । इतिशब्दः प्रकारवाची, कर्तव्यता नाम क्रिया। कर्तव्यतायाः प्रकार इतिकर्तव्यता, उपकारकमिति यावदिति बोध्यम् । व्यंशायामिति । साध्यायंशत्रयवत्यामित्यर्थः । भावनायामिति । रसभावनायामित्यर्थः । करणांशे साधनांशे। कारणांशे इति च पाठः । भोगो- ऽपीत्यादि। 'न क्रियते' इति सम्बन्धः । नञि काकुः । क्रियत एवेत्यर्थः । न न क्रियत इति वा पाठः । विशेषमाह-अपि त्वित्यादि । 'अपि तु भोगे कर्तव्ये लोकोत्तरी ध्वननव्यापार एव मूर्धाभिषिक्त' इति सम्बन्धः । घनेति । घनं निबिडं यन्मेहरूपमा. न्ध्यमज्ञानं तेन या सङ्कटता आनन्दांशस्यावृतत्वं तस्या निवृत्तिर्भजनं तद्द्वारेणेत्यथः । अलौकिके लौकिकसुखानुभवविलक्षणे । भोग इति । भग्नानन्दाशावरणकविभा- वादिसंवलितरत्यादिस्थाय्यवच्छिन्नात्मचैतन्यसाक्षात्कार इत्यर्थः । कर्तव्ये जननीये ।