पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

त् । जातिदेश कालव्यवहितानामप्यानन्तर्य स्मृतिसंस्कारयोरेकरूपत्वात्" इति । तेन प्रतीतिस्तावद्रसस्य सिद्धा । सा च रसनारूपा प्रतीतिरुत्पद्यते । वाच्यवाचकयोस्तत्रा- मिधादिविविक्तो व्यञ्जनात्मा ध्वननव्यापार एव । भोगीकरणव्यापारश्च काव्यस्य रस- विषयो ध्वननात्मैव, नान्यत्किञ्चित् । भावकत्वमपि समुचितगुणालङ्कारपरिग्रहात्मकम- स्माभिरेव वितत्य वक्ष्यते । किमेतदपूर्वम् ? काव्यं च रसान् प्रति भावकमिति यदुच्यते,

बालप्रिया

इत्युक्तमित्यर्थः । चित्रेति । नानाविधेत्यर्थः । तथाच लोकोत्तरचरितेष्वपि सहृदयानां हृदयसंवादो भवत्येवेति भावः । यदाहेति । योगसूत्रकार इति शेषः। 'जाती'त्या- दिसूत्रानन्तरं 'तासामित्यादिसूत्रपाठो दृश्यते । जातीत्यादिसूत्रे वासनानामिति पद- स्यानुषङ्गः । भोजराजेन सूत्रद्वयमिदमित्थं विवृतम्-इह नानायोनिषु भ्रमतां संसारिणां काञ्चिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते, तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया या वासनाः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटी- भवन्ति । जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाधने आनन्तर्यं नैरन्तर्यं कुतः ? स्मृतिसंस्कारयोरेकरूपत्वात् । तथा ह्यनुष्ठीयमानकर्मणश्चित्तसत्वे वास- नारूपः संस्कारः समुत्पद्यते । स च स्वर्गनरकादीनां फलानामङ्कुरीभावः, कर्मणां वा यागादीनां शक्तिरूपतयावस्थानं, कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यं, संस्कारा- स्मृतिः स्मृतेश्च सुखदुःखोपभोगः, तदनुभवाच्च पुनरपि त्संस्कारस्मृत्यादयः। भवत्वा- नन्तर्यं कार्यकारणभावश्च वासनानां; यदा तु प्रथममेवानुभवः प्रवर्तते, तदा किं वासनानिमित्त उत निर्निमित्त इति शङ्कां व्यपनेतुमाह-'तासां' वासनानां 'अनादित्व' मस्ति, कुतः ? 'आशिषो नित्यत्वात् सेय माशीर्महामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगोऽभूदिति यः सङ्कल्पविशेषो वासनानां कारणं तस्याः नित्यत्वादित्यर्थः। एतदुक्तं भवति–कारणस्य सन्निहितत्वादनुभवसंस्कारादीनां कार्याणां प्रवृत्तिः केन वार्यत इति । तेनेति । पूर्वोक्तहेतुनेत्यर्थः । सा चेत्यादि । रसनारूपा रसप्रतीतिः सहृदयानामुत्सद्यत इत्यर्थः । वाच्यवाचकयोरिति । काव्यस्येत्यर्थः । तत्र रसप्रतीती। व्यञ्जनात्मा व्यञ्जकत्वरूपः। भोगीति । भट्टनायकोक्तो भोगकृत्व- व्यापारश्चेत्यर्थः । भावकत्वमिति यदुक्तं तदप्यस्मदम्युपगतमेव, परन्तु गुणालङ्कार- शालित्वमेव तत् ; यतस्तेनैव काव्यं सहृदयानां रसभावकं रसचर्वणोत्पादकमित्याह- भावकत्वमपीति। काव्यस्येत्यनुषङ्गः । समुचितेति । तत्तद्रसादिसमुचितगुणा- लङ्कारशालित्वमित्यर्थः । किमेतदपूर्वमिति । एवदपूर्वं नेत्यर्थः । किञ्च भावकत्व- स्वीकारे रसो नोत्पद्यत इति भवदीयप्रतिज्ञाया भङ्गोऽप्यापतति इत्याह-काव्यं चेत्यादि । 'भावकमित्युच्यते यदिति सम्बन्धः । तत्रेति । तद्वचने सतीत्यर्थः ।