पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
द्वितीयोद्द्योतः


लोचनम्

एवैतानि दूषणानि, प्रतीतेः स्वपरगतत्वादिविकल्पनेन । सर्वपक्षेषु च प्रतीतिरपरिहार्या रसस्य । अप्रतीतं हि पिशाचवदव्यवहार्य स्यात् । किं तु यथा प्रतीतिमात्रत्वेनावि. शिष्टत्वेऽपि प्रात्यक्षिकी आनुमानिकी आगमोत्था प्रतिभानकृता योगिप्रत्यक्षजा च प्रती. तिरुपायवैलक्षण्यादन्यैव, तद्वदियमपि प्रतीतिश्चर्वणास्वादनभोगापरनामा भवतु । तन्निदानभूताया हृदयसंवादाद्युपकृताया विभावादिसामग्या लोकोत्तररूपत्वात् । प्रतीयन्त इति ओदनं पचतीतिवद्यवहारः, प्रतीयमान एव हि रसः । प्रतीतिरेव विशिष्टा रसना । सा च नाट्ये लौकिकानुमानप्रतीतेर्विलक्षणा; तां च प्रमुखे उपायतया सन्दधाना । एवं काव्ये अन्यशाब्दप्रतीतेविलक्षणा, तां च प्रमुखे उपा. यतयापेक्षमाणा ।

 तस्मादनुत्थानोपहतः पूर्वपक्षः । रामादिचरितं तु न सर्वस्य हृदयसंवादीति मह- त्साहसम् । चित्रवासनाविशिष्टत्वाच्चेतसः। यदाह-"तासामनादित्वं आशिषो नित्यत्वा-

बालप्रिया

णरूपेत्यर्थः। अत्र काव्ये। प्रथमपक्ष इति । भट्टलोल्लटोक्तोत्पत्तिपक्ष इत्यर्थः । विकल्पनेन दूषणानीति सम्बन्धः । सर्वेति । सहृदयानां रसप्रतीतिः सर्वपक्षेऽप्यपरि- हार्येत्यर्थः । विपक्षे बाधकमाह-अप्रतीतमित्यादि । अप्रतीतं विशिष्याज्ञातं वस्तु । अव्यवहार्यम् व्यवहारायोग्यम् । अत्र दृष्टान्तः-पिशाचवदिति । पिशाचो हि विशिष्याज्ञातत्वेनानायं पिशाच इत्यादि लोकव्यवहारानर्हः । किन्त्विति । रसप्रतीतेः विशेषोऽस्तीत्यर्थः । प्रतीतीत्यादि । प्रतीतित्वरूपसामान्यधर्मेणाविशेषेऽपीत्यर्थः । आगमोत्थेति । शब्दजन्येत्यर्थः । अन्यैवेति। परस्परभिन्नैवेत्यर्थः । तद्वदित्यादि । रसप्रतीतिरपि ताभ्यो भिन्नैवेत्यर्थः। तत्पर्यायानाह-चर्वणेति । भवत्वित्यभ्यु. पगमे । ओदनमित्यादि । पक्वस्तण्डुलो ह्योदनपदार्थ इति तद्वयवहारो यथा औप- चारिकः, तथेत्यर्थः । उक्तार्थे हेतुमाह-प्रतीयमान एवेति । प्रतीतिविषयताविशिष्ट एवेत्यर्थः । विशिष्टेति । विभावादिविशिष्टस्थायिविषयिकेत्यर्थः । सा च नाट्य इति । नाटयजन्या रसप्रतीतिश्चेत्यर्थः । लौकिकेति । लौकिकी या अनुमानेन प्रतीतिः धूमा- दिलिङ्गकवह्नयाद्यनुमितिः, तद्विलक्षणेत्यर्थः । तां लौकिकानुमानप्रतीतिम् । प्रमुखे आदौ । सन्धाना अपेक्षमाणा । एवं काव्य इति । सा चेत्यनुषज्यते । अन्य- शाब्दप्रतीतेः । लौकिकवैदिकादिशब्दजन्यप्रतीतेः । तामिति । अन्यशाब्दप्रतीति- मित्यर्थः । उपायतया अपेक्षमाणेति । लौकिकानुमानशब्दप्रमाणव्युत्पन्नहृदयस्यैव सहृदयस्य रसप्रतीतिर्भवतीति भावः ।

 अथ भट्टनायकोक्तं खण्डयति-तस्मादित्यादि । पूर्वपतक्षः रसो न प्रतीयत इत्यायुक्तः। अलोकसामान्यानामित्याद्युक्तं मनसिकृत्याह-रामादीति । इतीति ।


 १. योगसू., ४, ९, १०.