पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

रसः, नानुकार्यादिष्विति केचित् ।

 अन्ये तु-अनुकर्तरि यः स्थाय्यवभासोऽभिनयादिसामग्यादिकृतो भित्ताविव हरितालादिना अश्वावभासः, स एव लोकातीततयास्वादापरसंज्ञया प्रतीत्या रस्यमानो रस इति नाट्याद्रसा नाट्यरसाः। अपरे पुनर्विभावानुभावमात्रमेव विशिष्टसामग्या समर्म्यमाणं तद्विभावनीयानुभावनीयस्थायिरूपचित्तवृत्त्युचितवासनानुषक्तं स्वनिर्वृतिन. र्वणाविशिष्टमेव रसः। तन्नाट्यमेव रसाः । अन्ये तु शुद्धं विभावम् , अपरे शुद्धमनु- भावम्, केचित्तु स्थायिमात्रम् , इतरे व्यभिचारिणम्, अन्ये तत्संयोगम् , एकेऽनुका- र्यम् , केचन सकलमेव समुदायं रसमाहुरित्यलं बहुना ।

 काव्येऽपि च लोकनाट्यधर्मिस्थानीयेन स्वभावोक्तिवक्रोक्तिप्रकारद्वयेनालौकिकप्रस- न्नमधुरौजस्विशब्दसमर्प्यमाणविभावादियोगादियमेव रसवार्ता । अस्तु वात्र नाट्याद्वि- चित्ररूपा रसप्रतीतिः; उपायवैलक्षण्यादियमेव तावदत्र सरणिः । एवं स्थिते प्रथम पक्ष

बालप्रिया

नाट्ये इति छेदः । रसस्योक्तरीत्या नटाश्रयकत्वेन नाट्याश्रयकत्वमित्यर्थः ।

 रामादिगतस्थायिनोऽनुकारे नटे स्थाय्यवभासो मिथ्याज्ञानरूपः सामाजिकानां जायते, स एव चमत्कारकारी रस इति केचित्तन्मतमाह-अन्य इत्यादि । 'अश्वाव- भास इवे'त्यन्वयः। स एवेति । अवभासमानः स्थाय्येवेत्यर्थः । रस्यमान इति । विषयीक्रियमाण इत्यर्थः । नाट्याद्रसा इति । स्थाय्यवभासस्य नाट्यहेतुकत्वादिति भावः । मतान्तरमाह-अपर इत्यादि । विभावानुभावमात्रमेवेति । रस इत्यने- नास्य सम्बन्धः । कथमित्यत्राह-विशिष्टेत्यादि । विशिष्टसामग्रया भावकत्ववि- शिष्टया नाट्यादिसामग्रया । समर्प्य॑माणमिति । सामाजिकेष्विति शेषः । तदिति । ताभ्यां विभवानुभवाभ्यां क्रमाद्विभावनीया अनुभावनीया च या रत्यादिस्थायिरूपचि- त्तवृत्युचिता वासना सामाजिकगता तदनुषक्तं तत्सम्बद्धम् । स्वेति । स्वस्य सामा- जिकस्य निर्वृतिरूपा या चर्वणा तद्विशिष्टं तद्विषयभूतम् । नाट्यमेवेति । विभवानु- भवयोर्नटनयोग्यत्वरूपनाट्यत्वादिति भावः । 'शुद्धं विभावमित्यादौ सर्वत्र रसमाहु- रित्यस्य सम्बन्धो बोध्यः।

 लोकेत्यादि । “स्वभावाभिनयोपेतं न नास्त्रीपुरुषाश्रयं नाट्यं लोकर्मि" "स्वरा- लङ्कारसंयुक्तमस्वस्थपुरुषाश्रयं नाट्यं नाव्यधर्मि' तत्स्थानीयेन तत्तुल्येन । स्वभावे. ति । वक्रोक्तिशब्दार्थः पूर्वमुक्तः । द्वयेनेति तृतीयार्थो वैशिष्ट्यं शब्देऽन्वेति । द्वयेने- त्यलौकिकत्वे हेतुर्वा। अलौकिकेति । अलौकिको लौकिकशब्दव्यतिरिक्तः प्रसन्नो मधुर ओजस्वी च यः शब्दः, तेन समर्प्यमाणानां विभावादीनां योगादित्यर्थः। इयमेवेति । उक्तप्रकारैवेत्यर्थः । रसवार्ता रसपदार्थः तत्प्रतीतिर्वा । अस्तु वात्रेति । अत्र काव्ये । विचित्ररूपा विजातीया । अत्र हेतुमाह-उपायेति । इयमिति । वक्ष्यमा-