पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
द्वितीयोद्द्योतः


लोचनम्

कश्चमत्कारः ? प्रत्युत करुणादौ दुःखप्राप्तिः । तस्मान्नायं पक्षः । कस्तर्हिं ? इहान- न्त्यानियतस्यानुकारः न शक्यः, निष्प्रयोजनश्च विशिष्टताप्रतीतौ ताटस्थ्येन व्युत्प. त्यभावात् ।

 तस्मादनियतावस्थात्मकं स्थायिनमुद्दिश्य विभावानुभावव्यभिचारिभिः संयुज्यमा- नैरयं रामः सुखीति स्मृतिविलक्षणा स्थायिनि प्रतीतिगोचरतयास्वादरूपा प्रतिपत्तिरनु. कर्त्रालम्बना नाट्यैकगामिनी रसः । स च न व्यतिरिक्तमाधारमपेक्षते । किं त्वनुका- र्योभिन्नाभिमते नर्तके आस्वादयिता सामाजिक इत्येतावन्मात्रमदः । तेन नाट्य एव

बालप्रिया

सामाजिकेत्यादि । तद्भावे इत्यनुषज्यते । कश्चमत्कार इति । रामादेरिव सामा- जिकस्यापि रत्यादिरूपरसोत्पत्तौ चमत्कारी न जायतेति भावः । दुःखप्राप्तिरिति । स्यादिति शेषः । नायं पक्ष इति । उक्तः पक्षो न युक्त इत्यर्थः । कस्तर्हीति । पक्ष इत्यनुषज्यते । प्रश्नस्योत्तरं वक्तुमुपक्रममाण आह-इहेत्यादि ।आनन्त्या- दिति । तत्तद्गतस्य रत्यादिभावस्य मन्दतममन्दतरमन्दमध्यमत्वादिभेदेनासंख्यत्वा- दित्यर्थः । नियतस्येति । निश्चितैकावस्थाविशिष्टस्येत्यर्थः । स्थायिन इति शेषः । अनुकारो न शक्य इति । स्थायिन आनन्त्यान्नियतैकावस्थत्वेन ज्ञातुमशक्यत्वादिति भावः । कथञ्चित्तत्सम्भवेऽप्याह-निष्प्रयेजनश्चेत्यादि । अनुकार इत्यनुषज्यते । निष्प्रयोजनत्वे हेतुमाह-विशिष्टतेत्यादि । स्थायिनो रामादिव्यक्तिविशेषवृत्तित्ववै. शिष्टयमवबुध्य नटेन तदनुकारे क्रियमाणे तथैव सामाजिकानां प्रतीत्या तस्य तटस्थ- त्वेन चतुर्वर्गोपायव्युत्पत्तेरनुदयादित्यर्थः । अनेन स्थाय्यनुकारो रस इति पक्षोऽप्य- युक्त इति दर्शितम् ।

 स्वमतमाह-तस्मादित्यादि । 'स्थायिनमुद्दिश्य संयुज्यमानै रिति सम्बन्धः । स्थायिप्रतीतिमुद्दिश्य नटेन प्रयुज्यमानैरित्यर्थः । विभावेति । तैर्लिङ्गैरित्यर्थः । प्रति- पत्तिरित्यनेनास्य सम्बन्धः । अयं रामः सुखीति । रामोऽयं सीताविषयकरतिमा नित्यर्थः । सामाजिकानां चित्रतुरगन्यायेन नटे रामादिबुद्धिर्जायते । इतीत्यस्य प्रति- पत्तिरित्यनेन सम्बन्धः । स्थायिनि प्रतीतिगोचरतयेति । स्थायिनः प्रतीतिविष- यत्वेन हेतुनेत्यर्थः । वस्तुसौन्दर्यादिति भावः । आस्वादरूपेति । चमत्कारिचर्वणा- रूपेत्यर्थः । प्रतिपत्तिरिति । सामाजिकानामनुमितिरित्यर्थः चेति तथाविधस्था।स अनुकर्त्रालम्बनेति । अयमित्यनेन नटस्य विषयीकरणादनु कर्तृविषयिकेत्यर्थः स चेति।तथाविधस्था यिप्रतीतिरूपो रसश्चेत्यर्थः । व्यतिरिक्तमिति । वक्ष्यमाणादन्यमित्यर्थः । अनुका- र्याभिन्नाभिमते अनुकार्यरामाद्यभेदेन गृहीते । नर्तक इति । अस्तीति शेषः । तथा- विधप्रतीतिरूपरसस्य नर्तकविशेष्यकत्वान्नर्तके विशेष्यतासम्बन्धेन सत्वात्स एवाश्रय इत्यर्थः । आस्वादयिता आस्वादरूपप्रतीतेः समवायेनाश्रयः। नाट्य एवेति ।

     २४ ध्व०

-