पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 अत्रोच्यते-रसस्वरूप एव तावद्विप्रतिपतयः प्रतिवादिनाम् । तथाहि-पूर्वाव- स्थायां यः स्थायी स एव व्यभिचारिसम्पातादिना प्राप्तपरिपोषोऽनुकार्यगत एव रसः। नाट्ये तु प्रयुज्यमानत्वान्नाट्यरस इति केचित् । प्रवाहधर्मिण्यां चित्तवृत्ती चित्तवृत्तेः चित्तवृत्त्यन्तरेण कः परिपोषार्थः ? विस्मयशोककोधादेश्च क्रमेण तावन्न परिपोष इति नानुकायें रसः । अनु कर्तरि च तद्भावे लयाद्यननुसरणं स्यात् । सामाजिकगतेवा

बालप्रिया

चतुर्वर्गोपायव्युत्पत्तिरित्यर्थः । इतीति । इति भट्टनायकोक्तमिति सम्बन्धः ।

 रसस्वरूप एवेति। रसपदार्थ एवेत्यर्थः । विभिन्नाः प्रतिपत्तयो विप्रतिप- त्तयः विभिन्नानि मतानि । तथाहीति । नाट्यस्थले विप्रतिपत्तीरादौ विवृणुम इस्यर्थः । तत्र ललनादिभिरालम्बनविभावैः स्थायी रत्यादिको जनितः, उद्यानादिभिरुद्दीपन वि- भावरुद्दीपितः, कटाक्षादिभिरनुभावैः प्रतीतियोग्यः कृतः, उत्कण्ठादिभिर्व्यभिचा- रिभिः परिपोषितो रामादावनुकार्ये रसः, नटे तु रामादिरूपतानुसन्धानवशादारोप्य- माणस्सामाजिकानां चमत्कारकारोति भट्टलोल्लटादिमतमादौ दर्शयति-पूर्वेत्यादि । पूर्वावस्थायामिति । अप्राप्तपरिपोषावस्थायामित्यर्थः । यः स्थायीति । स्थायित्वेन व्यपदिश्यमानो यो रत्यादिरित्यर्थः । स एव प्राप्तपरिपोषो रस' इति सम्बन्धः । रसः रसपदार्थः । म चानुकार्यगत एवेति । अनुकार्यरामादावोत्पद्यमानो वर्तत इत्यर्थः । अनेनानुकर्तरि तदारोप इति दर्शितम् । तस्मान्नाटय रसा इति भरतोक्तनाट्य रसशब्दार्थमाह-नाटय इत्यादि । नाटयस्य नाटयसम्बन्धी वा रसो नाटयरस इति व्युत्पत्तिरिति भावः । मतमिदं दूषयित्वा प्रकारान्तरेण वदतां श्रीशङ्कुकादीनां मत दर्शयति-प्रवाहेत्यादि । चित्तवृत्तौ रत्यादिचित्तवृत्तौ। प्रवाहधर्मिण्यां तत्त- त्कारणवशेन पुनः पुनरुत्पद्यमानायां नश्यन्त्यां च सत्यामिति हेतुगर्भम् । चित्त. वृत्तेः रत्यादिस्यायिचित्तवृत्तेः । चित्तवृत्यन्तरेण उत्कण्ठादिव्यभिचारिणा । परि- पोषार्थः क इति । परिपोषरूपं फलं न भवतीत्यर्थः । अतो व्यभिचारिभिः परिपोषस्य कथनमनुपपन्नमिति भावः । विपर्ययश्चास्तीत्याह-विस्मयेत्यादि । क्रमेण काल- क्रमेण । न परिपोष इति । किन्त्वपचय एवेति भावः । यथोक्तं काव्यप्रकाशसङ्केते- “इष्टवियोगजो महान् शोकः क्रमेण शाम्यति, न तु दृढीभवति क्रोधोत्साहरतयश्च निज- निजकारणोद्भूता अपि कालवशादमस्थैर्य सवाविपर्ययेऽपचीयन्त” इति । इतीति हेतौ । नानुकार्य रस इति । अनुकार्यरामादिगतो रस इत्युक्तपक्षो न युक्त इत्यर्थः । तर्हि अनुकर्तृगतोऽस्त्वित्यत्राह-अनु कर्तरीत्यादि । अनुकर्तरि नटे । तद्भावे रस. सत्वे सति । लयादीति । लयो नाम नृत्तगीतवाद्यानामेकतानतारूपं साम्यं रसस्य नटे सिद्धत्वेन तदुपयोगिलयाद्यनुसरणं न स्यादित्यर्थः । तर्हि सामाजिकतोऽस्त्वित्यत्राह-