पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
द्वितीयोद्द्योतः


लोचनम्

र्जनं च किमर्थम् ? तेन रसभावनाख्यो द्वितीयो व्यापारः ; यद्वशादभिधा विलक्षणैव । तच्चैतद्भावकत्वं नाम रसान् प्रति यत्काव्यस्य तद्विभावादीनां साधारणत्वापादनं नाम । भाविते च रसे तस्य भोगः योऽनुभवस्मरणप्रतिपत्तिभ्यो विलक्षण एव द्रुति- विस्तरविकासात्मा रजस्तमोवैचित्र्यानुविद्धसत्त्वमयनिजचित्स्वभावनिर्वृतिविश्रान्ति- लक्षणः परब्रह्मास्वाद सविधः। स एव च प्रधानभूतोऽशः सिद्धरूप इति । व्युत्प- त्तिर्नामाप्रधानमेवेति ।

बालप्रिया

"हलन्त्यमिति पाणिनीयसूत्रादाविव "सर्वदो माधव' इत्यादिश्लेषस्थलेऽपि तन्त्रा. दिनानेकार्थबोधसम्भवादुभयोर्भेदो न स्यादित्यर्थः । वृत्तीति। वृत्तिभेदाः उपना- गरिकाद्याः । तेषां वैचित्र्यं च अकिञ्चित्करमिति । काव्ये अभिधामात्रस्वीकारे व्यर्थमित्यर्थः । किमर्थमिति । निष्फलमित्यर्थः । तेनेति । उक्तहेतुनेत्यर्थः । रस- भावनेति । रत्यादिभावनेत्यर्थः । द्वितीय इति । अभिधानन्तरभावीत्यर्थः । यद्व- शादिति । भावकत्वव्यापाररूपप्रयोजकादित्यर्थः। विलक्षणैवेति । शास्त्रीयादि- शब्दगताभिधातो विजातीयैवेत्यर्थः। तच्चेत्यादि । रसान् प्रति एतद्भावकत्वं नाम तदिति सम्बन्धः । काव्यस्येति । नाट्यस्याप्युपलक्षणम् । तद्विभावादीना- मिति । तस्य रत्यादिरूपरसस्य विभावादित्रयाणां चेत्यर्थः । साधारणत्वापादन- मिति । साधारणीकरणमित्यर्थः । सामान्येनोपस्थापकत्वमिति यावत् । भाविते उक्त- भावनाविषयीकृते । रसे रामादिगतत्यादौ । तस्येति । भावितस्य रत्यादेरित्यर्थः । भोग इति । साक्षात्कारविशेष इत्यर्थः । सहृदयानो भवतीति शेषः । तथाच भावनो. पनीतो रामादिगतरत्यादिः स्थायी सहृदयैर्भुज्यमानो रसः रत्यादेः साधारण्येन प्रतीत्या च न ताटस्थ्यादिदोष इति भावः । भोगस्वरूपमाह-य इत्यादि । अनुभवेति । अनुभवस्मरणरूपाः याः प्रतोपत्तयो लौकिक्यः प्रतीतयस्ताभ्य इत्यर्थः । 'द्रुतिविस्ता- रविकासात्मे त्यत्र हेतुमाह-रज इत्यादि । वैचित्र्यानुविद्धति पाठः । “रजस्तमोनुवे- द्यवैचित्र्यबलादि" त्यभिनवभारत्यामुक्तेः । रजस्तमसोर्वैचित्र्येण विशेषेण अनुविद्धं य- त्सत्वं तन्मयो । प्राचुर्यार्थे मयट् । निजचित्स्वभावा खात्मचैतन्यरूपा च या नि. वृतिः लोकोत्तरानन्दः, तस्यां विश्रान्तिः विगलितवेद्यान्तरतया स्थितिः तल्लक्षण इत्य- । अत्र रजसो गुणस्यानुवेधेन द्रुतिः तमसो विस्तारः सत्त्वस्य विकास इति विवेकः । उक्तं हि काव्यप्रकाशसङ्केते-"यदा हि रजसो गुणस्य द्रुतिः तमसो विस्तारः सत्वस्य विकासः तदा भोगः स्वरूपं लमत" इति। उक्तरीत्या भोगस्यात्मानन्दविष- यकत्वादाह-परेति । स एवेति । उक्तविधभोग एवेत्यर्थः । सिद्धरूप इति । चिदानन्दरूपस्यात्मनः सिद्धरूपत्वादिति भावः । व्युत्पत्तिारति । प्रतिपत्तॄणां