पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

पजनः। प्रत्यक्षादिव नायकमिथुनप्रतिपत्तौ । उत्पत्तिपक्षे च करुणस्योत्पादाद्दुःखित्वे करुणप्रेक्षासु पुनरप्रवृत्तिः स्यात् । तन्न उत्पत्तिरपि, नाप्यभिव्यक्तिः, शक्तिरूपस्य हि शृङ्गारस्याभिव्यक्तौ विषयार्जन तारतम्यप्रवृत्तिः स्यात् । तत्रापि कि खगतोऽभिव्यज्यते रसः परगतो वेति पूर्ववदेव दोषः । तेन न प्रतीयते नोत्पद्यते नाभिव्यज्यते काव्येन रसः। किं त्वन्यशब्दवैलक्षण्यं काव्यात्मनः शब्दस्य त्र्यंशताप्रसादात् । तत्रा. भिधायकत्वं वाच्यविषयम् , भावकत्वं रसादिविषयम् , भोगकृत्वं सहृदयविषयमिति त्रयोंऽशभूता व्यापाराः । तत्राभिधाभागो यदि शुद्धः स्यात्तत्तन्त्रादिभ्यः शास्त्र. न्यायेभ्यः श्लेषाद्यलङ्काराणां को भेदः ? वृत्तिभेदवैचित्र्यं चाकिञ्चित्करम् । श्रुतिदुधादिव-

बालप्रिया

प्रत्यक्षादित्यादि। प्रतिपत्ताविवेति सम्बन्धः दूषणान्तरमाह-उत्पत्तिपक्षे इत्यादि । सहृदयानामिति शेषः । करुणप्रेक्षासु करुणरसप्रधाननाट्येषु । तदिति । तस्मा दित्यर्थः । नाप्यभिव्यक्तिरिति । रसस्येति शेषः । तस्य प्रागसिद्धत्वादिति भावः । पूर्वसिद्धमेव हि घटादिकं प्रदीपादिनाभिव्यज्यते । ननु रत्यादिरूपो रसः सूक्ष्मरूपेण सहृदयानामात्मनि वर्तत इत्यतः सिद्ध एवेत्यत्राह-शक्तीत्यादि । शक्तिरूपस्य वासनात्मकसूक्ष्मरूपेण स्थितस्य । शृङ्गारस्य रतेः। शृङ्गारपदं वीरादेरुपलक्षकम् । अभिव्यक्तौ सहृदयहृदयेऽभिव्यक्त्यङ्गीकारे । विषयेति । विषयो रत्यादिविषयः कान्तादिः अभिव्यक्त्युपाय इति यावत् । तस्य अर्जने सम्पादने तारतम्यप्र- वृत्तिः तरतमभावेन प्रवृत्तिः स्यादिति । यथा अन्धकारस्थघटादेरधिकाधिकाभिव्य. क्त्ये तदुपायभूतालोकस्याधिकाधिकस्यार्जने जनानां प्रवृत्तिस्तथा वासनात्मतया अन्तः स्थितस्य रत्यादेरधिकाधिकाभिव्यक्तये तदुपायभूतस्य विभावादेरधिकाधिकस्यानुभव रूपार्जने सहृदयानां प्रवृत्तिः प्रसज्यतेत्यर्थः । अधिकाधिकविषयानुभवे वासनाया झ. टित्यभिव्यक्ति सम्भवादिति भावः । दूषणान्तरमाह-तत्रापीत्यादि । तत्रापि अभि- व्यक्तिपक्षेऽपि । उपसंहरति-तेनेत्यादि । न प्रतीयत इत्यादि । सहृदयात्मनीति शेषः। स्वमतमाह-किन्त्वित्यादि । अन्यशब्देति । शास्त्रीयादिशब्देत्यर्थः । शतेति । त्रयोंऽशा यस्य तस्य भावस्तत्ता, तस्याः प्रसादात्सम्बन्धादित्यर्थः । त्र्यंश- तां दर्शयति-तत्रेत्यादि । वाच्येति । वाच्योऽर्थो विषयो यस्य तत् , वाच्यार्थस- म्बन्धीत्यर्थः। रसादीति । रसो रत्यादिः, आदिपदेन विभावादेर्ग्रहणम् । भावकत्व- भोगकृत्वयोः स्वरूपं दर्शयिस्तदङ्गीकारे युक्तिं तावदाह-तत्रेत्यादि । अभिधाभागः अभिधायकत्वांशः । शुद्धः इतरव्यापारानालिङ्गितः । तत् तर्हि । तन्त्रादिभ्य इति । तन्त्रं नामानेकार्थबोधेच्छया पदस्यैकस्य सकृदुच्चारणम् । को भेद इति । शास्त्रे


 १. व्यंशतेति। इदं शब्दरूपश्रव्यकाव्याभिप्रायेण दृश्यरूपे नाट्ये तु शब्दाभा- वेनाभिधायकत्वाभावात् । २. आदिपदादेकशेषादग्रहणम् ।