पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
द्वितीयोद्द्योतः


लोचनम्

स्वगतत्वेन रामादिचरितमयात्काव्यादसौ प्रतीयते । स्वात्मगतत्वेन च प्रतीतौ स्वात्मनि रसस्योत्पत्तिरेवाभ्युपगता स्यात् । सा चायुक्ता सीतायाः । सामाजिकं प्रत्यविभाव. त्वात् । कान्तात्वं साधारणं वासनाविकासहेतुविभावतायां प्रयोजकमिति चेत्- देवतावर्णनादौ तदपि कथम् । न च स्वकान्तास्मरणं मध्ये संवेद्यते । अलोक- सामान्यानां च रामादीनां ये समुद्रसेतुबन्धादयो विभावास्ते कथं साधारण्यं भजेयुः । न चोत्साहादिमान् रामः स्मर्यते , अननुभूतत्वात् । शब्दादपि तत्प्रतिपत्तौ न रसो.

बालप्रिया

दि । स्वात्मगतत्वेन सहृदयात्मगतत्वेन । स्वात्मनीत्यादि । प्रतिपत्तुः स्वचित्तवृ- त्तेरेव प्रत्यक्षरूपा प्रतीतिर्भवति, तथा च तच्चित्तवृत्तेरुत्पत्तिरावश्यकी । विषयं विना प्रत्यक्षायोगादिति भावः । ननु रस उत्पद्यतामित्यत्राह-सा चेत्यादि । सा च स्वा- त्मनि रसोत्पतिश्च । पूर्व रामादीति निर्देशात् सीताया इत्युक्तम् । सीतादेरित्यर्थः । सामाजिकमिति । सहृदयमित्यर्थः । शङ्कते-कान्तात्वमित्यादि । साधारणं सीतासाधारणम् । वासनेति । वासनायाः सहृदयगतरत्यादिवासनायाः यो विकास उद्बोधः तस्य हेतुर्यो विभावः तस्य भावस्तत्ता तस्यां वासनाविकासहेतुतारूपायां विभावतायामित्यर्थः । हेतुरिति पाठे हेतुः सन्निति योजना। प्रयोजकमिति । तथा च सीतायाः मानुषीत्वेन सीतादौ सहृदयानां कान्तात्वसंवेदनं भवतीति भावः । प्रति. वक्ति-देवतेत्यादि । तदपि कान्तात्वसंवेदनमपि । कथमिति । देवतास्वमात्रादेर्ना यिकात्वेन वर्णनस्थले देवतादावाराध्यत्वज्ञानेन प्रतिबन्धात्तत्र काम्यत्वरूपकान्तात्वसं- वेदनं भवतीत्यर्थः । ननु काव्यादितः सीतादिज्ञाने जाते सहृदयानां स्वकान्तास्मरणं जायते, तेन च तद्वासनोद्वोध इत्यत आह-न चेत्यादि । न संवेद्यते सहृदयैर्न चा- नुभूयते । वीररसविषयेऽप्याह-लोकेत्यादि । अलोकसामान्यानां लोकसाधारण- भिन्नाम् । विभावाः सहृदयगतोत्साहविभावाः । साधारण्यं सर्वसाधारणत्वम् । कथं भजे युरिति । समुद्रसेतुबन्धनानौ उत्साहहेतुः स्वकृतिसाध्यत्वबुद्धिर्हदयसंवादो वा सहृदयानां नोत्पद्यतेति भावः । रामादिगतोत्साहादिस्थायिज्ञानमपि सहृदयानां रसोद्बोधे हेतुस्तदपि दुर्घटमित्याह-न चेत्यादिना । ननु काव्यादनुभवरूपा तत्प्र. तीतिर्भवतीत्यत्राह-शब्दादित्यादि । तत्प्रतीतौ रामादिगतोत्साहप्रतीतौ। सत्या- मपीति योजना । न रसोपजनः सहृदयानां न रसोत्पत्तिः । अत्र दृष्टान्तमाह--


 १. प्रयोजक अवच्छेदकमित्यर्थः । कान्तात्वेन वासनाविकासत्वेन कार्यकारणभा- वोऽनुभवसिद्ध इति भावः ।

 २. कथमिति । कान्तात्वं नायिकात्वम् । प्रतिबन्धकाभावसहकृतं तज्ज्ञानं वासना- विकासं जनयेत् । अत्राराध्यत्वपूज्यत्वादिबुद्धेः प्रतिबन्धिकायास्सत्वेन न तं जनयितुं प्रभवतीति तात्पर्यम् ।