पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
सटीकलोचनोपेतध्वन्यालोके


 रसादिरर्थो हि सहेव वाच्येनावभासते । स चाङ्गित्वेनावभासमानो ध्वनेरात्मा।

 इदानीं रसवदलङ्कारादलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदर्श्यते-

वाच्यवाचक चारुत्वहेतुनां विविधात्मनाम् ।
रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥ ४॥


लोचनम्

राजस्य परस्परास्थाबन्धरूपो रतिस्थायिभावो विभावानुभावसंयोजनवशेन चर्वणारूढ इति । तदलं बहुना! स्थितमेतत्-रसादिरर्थोऽङ्गित्वेन भासमानोऽसंलक्ष्यक्रमव्यङ्गयस्य ध्वनेः प्रकार इति । सहेवेति । इवशब्देनासंलक्ष्यता विद्यमानत्वेऽपि क्रमस्य व्या- ख्याता । वाच्येनेति । विभावानुभावादिना ॥ ३ ॥

 नन्वङ्गित्वेनावभासमान इत्युच्यते । तत्राङ्गत्वमपि किमस्ति रसादेर्येन तन्निराकर. णायैतद्विशेषणमित्यभिप्रायेणोपक्रमते-इदानीमित्यादिना । अङ्गत्वमस्ति रसादीनां रसवत्प्रेयऊर्जस्विसमाहितालङ्काररूपतायामिति भावः । अनया च भङ्गया रसवदादि- ष्वलङ्कारेषु रसादिध्वनेर्नान्तर्भाव इति सूचयति । पूर्व हि समासोक्त्यादिषु वस्तुध्वने. र्नान्तर्भाव इति दर्शितम् । वाच्यं च वाचकं च तच्चारुत्वहेतवश्चेति द्वन्द्वः । वृत्तावपि शब्दाचालङ्कारावार्थाश्चालङ्काराश्चेति द्वन्द्वः। मत इति । पूवमेवैतदुक्तमित्यर्थः । ननूक्तं भट्टनायकेन-"रसो यदा परगततया प्रतीयते तर्हि ताटस्थ्यमेव स्यात् । न च

बालप्रिया

का अनुवर्ण्यमाना दृश्यमाना, 'निर्वर्ण्यमाने'ति पाठः साधिष्ठः, या स्वात्मप्रतिकृति- स्तया पवित्रितं यच्चित्रफलकं तदवलोकनादित्यर्थः । प्रबुद्ध इति शेषः । चर्वणारूढ इति । सहृदयचर्वणास्पदमित्यर्थः ॥ ३ ॥

 वाच्येत्यादिकारिकायां 'शब्दालङ्कारा' इत्यादिवृत्तौ चार्थान्तरभ्रमः स्यादित्यतो विवक्षितमर्थ व्याचष्टे-वाच्यञ्चेत्यादि । प्रसङ्गाद्रसखरूपं व्यवस्थापयिष्यन्नादौ परमतान्युपन्यस्यति-ननूक्तमित्यादि । नन्विति शङ्काद्योतकं भट्टनायकाद्युक्तानां पूर्व. पक्षत्वमगवमयति । कथमुक्तमित्यत्राह-'रस' इत्याद्य 'प्रधानमेवे त्यन्तेन । रस इति । रत्यादिरूपः शृङ्गारादिरस इत्यर्थः । यदेति यदीत्यर्थे। परेति । सहृदयादन्येत्य- र्थः । ताटस्थ्यमिति । सहृदयासम्बन्धित्वमित्यर्थः । ताटस्थ्ये सति स्वरसनीयत्वं न भवेदिति भावः । न चेत्यादि । 'असौ स्वगतत्वेन न च प्रतीयत' इति सम्बन्धः तत्प्रत्यायकाभावादिति भावः । स्वगत्वेन प्रतीत्यभ्युपगमे बाधकञ्चाह-स्वात्मेत्या-