पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
द्वितीयोद्द्योतः


लोचनम्

शब्दं प्रयुञ्जानो मुनिरपि सूचितवान् । अनुकृतिरमुख्यता आभास इति ह्येकोऽर्थः । अत एवाभिलाषे एकतरनिष्टेऽपि शृङ्गारशब्देन तत्र तत्र व्यवहारस्तदाभासतया मन्तव्यः । शृङ्गारेण वीरादीनामप्याभासरूपतोपलक्षितैव । एवं रसध्वनेरेवामी भाव- ध्वनिप्रभृतयो निष्यन्दा आस्वादे प्रधानं प्रयोजकमेवमंशं विभज्य पृथग्व्यवस्था यथा गन्धयुक्तिज्ञैरेकरससम्मूर्च्छितामोदोपभोगेऽपि शुद्धमास्यादिप्रयुक्तमिदं सौरभमिति रसध्वनिस्तु स एव योऽत्र मुख्यतया विभावानुभावव्यभिचारिसंयोजनो- दितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवास्वादप्रकर्षः । यथा-

कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले
मध्येऽस्यास्त्रिवलीतरङ्गविषमे निःष्पन्दतामागता ।
मदृष्टिस्तृषितेव सम्प्रति शनैरारुह्य तुङ्गौ स्तनौ
साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥

 अत्र हि नायिकाकारानुवर्ण्यमानस्वात्मप्रतिकृतिपवित्रितचित्रफलकावलोकनाद्वत्स-

वालप्रिया

द्वारानुकृतिर्या तु स हास्य इति प्रयुञ्जान इत्यर्थः। इति ह्येकोऽर्थ इति । अनुकृत्यादि शब्दाः पर्याया इत्यर्थः । शृङ्गारेणेति । शृङ्गारानुकृतिरिति मुनिवचनस्थशृङ्गारशब्दे- नेत्यर्थः । वीरादीनामिति । तेषां गुर्वाधालम्बनत्वे ह्याभासता । उपसंहरति- एवमित्यादि । कथं तर्हि पृथग्व्यवहार इत्यत आह-आस्वाद इति । 'प्रधानं प्रयोजकमंशमेवं विभज्ये' त्यन्वयः। पृथव्यवस्थाप्यत इति । पृथक रसध्व नित्वभावध्वनित्वादिभिन्नरूपेण । अत्र दृष्टान्तमाह-यथेति । गन्धयुक्तिः गन्धद्र व्ययोजना । एकेति । एकरसः एकास्वादः यः सम्मूर्च्छितस्य व्याप्तस्य आमो. दस्य उपभोगः तस्मिन्नपि । मांसीगन्धद्रव्यविशेषः । इतीति पृथग्व्यवस्थाप्यत इत्यस्यानुषङ्गः। विभावेति । विभावादीनां त्रयाणां संयोजनेन तच्चर्वणया उदिता उत्पन्ना स्थायिप्रतिपत्तिः यस्य ।

 कृच्छेणेति । रत्नावत्यां राज्ञो विदूषकं प्रतीयमुक्तिः । अस्या इत्यस्योरुयुगमि- त्यादिभिः पञ्चमिः सम्बन्धः । त्रिवल्येव तरङ्गः तरङ्गतुल्या त्रिवली वा तेन विषमे निम्नोम्नते । तृषितेव तृषितत्वादिव । जललवाः अश्रुकणाः । तत्प्रस्यन्दिनी. ति । तथा लिखिते इति बोध्यम् । अत्रोरुयुगस्य नितम्बस्य चातिविशालत्वं मध्यस्य तनुत्वं स्तनयोर्मह्त्वं च गम्यत इति सौन्दर्यातिशयो जललवेत्यादिना नायिकाया वि. रहदुःखातिशयश्च व्यज्यते । कस्याश्चिदरण्यभ्रमणवृत्तान्तस्य चात्र समाधिः । नायि- केति । नायिकाकारेण लिखितनायिकाप्रतिकृत्या हेतुना अनुवर्ण्यमानं नर्मसचिवं प्रति मुहुर्वर्ण्यंभानं स्वात्मप्रतिकृत्या लिखितनायकप्रतिकृत्या पवित्रितं च, यद्वा-नायिकाकारेण


 १ रत्ना., २.४.