पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

दयस्तदा विभावानुभासाच्चर्वणाभास इति रसाभासस्य विषयः । यथा रावण काव्याकर्णने शृङ्गाराभासः । यद्यपि 'शृङ्गारानुकृतिर्या तु स हास्यः' इति मुनिना निरूपितं तथाप्यौ- त्तरकालिकं तत्र हास्यरसत्वम् ।

दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं
चेतः काल कलामपि प्रकुरुते नावस्थितिं तां विना ।

 इत्यत्र तु न हास्यचर्वणावसरः।ननु नात्र रतिः स्थायिभावोऽस्ति। परस्परा- स्थाबन्धाभावात् केनैतदुक्तं रतिरिति । रत्याभासो हि सः। अतश्चाभासता येनास्य सीता मय्युपेक्षिका द्विष्टा वेति प्रतिपत्तिह्रदयं न स्पृशत्येव । तत्स्पर्शे हि तस्याप्यभि- लाषो विलीयेत । न च मयीयमनुरक्तोत्यपि निश्चयेन कृतं, कामकृतान्मोहात् । अत एव तदाभासत्वं वस्तुतस्तत्र स्थाप्यते शुक्तौ रजताभासवत् । एतच्च शृङ्गारानुकृति

बालप्रिया

यद्यपीति । मुनिना निरूपितमिति । तथा च तत्र हास्यो रसो वक्तुं न्याय इति भावः । औत्तरकालिकमिति । शृङ्गारचर्वणोत्तरकालभवमित्यर्थः। तच्चर्वणोत्तरमय मननुरक्तां कामयत इति रावणाभिलाषाद्यालम्बितस्य हासस्य सहृदयानामुद्बोधा दिति भावः ।

 दूरेति । एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः सम्पद्येत कथं तदाप्तिसुखमित्ये. तन्न वेद्मि स्फुटमित्युत्तरार्धम् । 'प्रकुरुत' इत्यत्र 'प्रसहत इति च पाठः ।दूराकर्षणं मोहश्च तत्कारी यो मन्त्रः तस्मिन्निवेत्युपमा । तया दूराकर्षकत्वादेरव्यभिचारो द्योत्यते । तन्नाम्नि सीतानाम्नि । अनङ्गातुरः एतैः अङ्गैः । आकुलितस्य विह्वलीकृतस्य विक्षता नष्टा रतिः विषयान्तरेषु रुचिर्यस्य तस्य । अरतिमापन्नस्येति यावत् । मे इत्यनुषज्यते । न हास्येति । आदाविति शेषः । किन्तु शृङ्गाराभासचर्वणैवेति भावः। केनेति । रतिरित्येतत् केनोक्तमित्यन्वयः।अत्र प्रतीयमाना रतिर- भिलाषरूपा चित्तवृत्तिरेव, न तु स्थाथिभाव इति भावः । रत्याभासो हि स इति । सः रावणगताभिलाषरूपा चित्तवृत्तिः । रत्याभासः स्थायिभूतरति- त्वेनाभासमानः। अतश्चेति । वक्ष्यमाणहेतुनेत्यर्थः ।अस्य रावणस्य मयि विषये। उपेक्षिका उपेक्षावती। द्विष्टा द्वेषवती । तत्स्पर्शे तथाविधप्रती- तिस्पर्शे । तस्य रावणस्य । न चेति । तत निषेधवाची निपातः । इयं मय्यनुरक्तति निश्चयस्याभावश्च नेत्यर्थः । तन्निश्चयश्चास्तीति यावत् । अत्र हेतुमाह- कामेत्यादि । 'निश्चयेन कृत्यति च पाठः । तत्पक्षे न च कृत्यमित्यन्वयः । इति निश्चयेन न च प्रयोजनमित्यर्थः । तन्निश्चयो ह्यभिलाषजननेऽनुपयोगीति भावः । अत्र पक्षे 'कामकृतान्मोहादित्यस्य न स्पृशत्येवेत्यनेनान्वयो बोध्यः ।अत एव उक्ताद्धेतोरेव । तदाभासत्वं रत्याभासत्वं । तत्र अभिलाषरूपायो रावणचित्तवृत्तौ । स्थाप्यत इति । प्रतिपत्तृभिरिति शेषः। शृङ्गारानुकृतिशब्दं प्रयुञ्जान इति ।श्रृ -

-