पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
द्वितीयोद्द्योतः


लोचनम्

क्वचिव्द्यभिचार्यन्तरशबलतैव. विश्रान्ति पदम् । यथा--

क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥

 अत्र हि वितर्कौत्सुक्ये मतिस्मरणे शङ्कादैन्ये धृतिचिन्तने परस्परं बाध्यबाधक. भावेन द्वन्द्वशो भवन्ती, पर्यन्ते तु चिन्ताया एव प्रधानतां ददती परमास्वादस्थानम् । एवमन्यदप्युत्प्रेक्ष्यम् । एतानि चोदयसन्धिशबलत्वादिकानि कारिकायामादिग्रहणेन गृहीतानि ।

 नन्वेवं विभावानुभावमुखेनाप्यधिकश्चमत्कारो दृश्यत इति विभावध्वनिरनुभाव- ध्वनिश्च वक्तव्यः । मैवम् ; विभावानुभावौ तावत्स्व शब्दवाच्यावेव । तच्चर्वणापि चित्तवृत्तिष्वेव पर्यवस्यतीति रसभावेभ्यो नाधिकं चर्वणीयम् । यदा तु विभावानुभावा- वपि व्यङ्गयौ भवतस्तदा वस्तुध्वनिरपि किं न सह्यते । यदा तु विभावाभासाद्रत्याभासो.

बालप्रिया

 क्वाकार्यमिति । देवयानीमभिलषतो ययातेरियमुक्तिः । अकार्यं ब्राह्मणकन्य- कासक्तिरूपम् । क्वद्वयेन द्वयोः सहानवस्थानप्रतीतिः । तेनात्यन्तानौचित्यं व्यज्यते । अत्र वितर्कः । भूयोऽपीत्यादि । अत्रौत्सुक्यम् । दोषाणां प्रमादादीनाम् । प्रशः माय आत्यन्तिकनाशाय । श्रुतं शास्त्रश्रवणम् । अत्र मतिः । अहो इत्यादि । कान्तं मनोहरं मुखं तस्याः मुखम् । अत्र स्मृतिः । अपकल्मषाः अपगतं कल्मषं दुश्चरितं येभ्यस्ते। कृते सुचरिते धीर्येषाम् । यद्वा-कृता शिक्षिता धीर्येषां ते पण्डिताः । किं वक्ष्यन्ति । अत्र शङ्का। स्वप्नेऽपि अदृष्टाश्रुतपूर्वघटकेऽपि सा दुर्लभा । अत्राभिमताप्राप्ति प्रयुक्तं दैन्यम् । चेत इत्यादि । अत्र धृतिः । क इत्यादि । धन्यः नाहमिव मन्दभाग्यः। धास्यति पास्यति । अत्र चिन्ता च व्यज्यते । तदाह- अत्र होत्यादि । वितर्कोत्सुक्ये इत्यादि । क्वाकार्यमित्याद्येकैकपादस्थवाक्याभ्यां क्रमेण व्यज्यमाने इति भावः । परस्परं बाध्येति । वितर्कादिरौत्सुक्यादिना बाध्यत इत्यर्थः । 'भवन्ती ददतीति च द्विवचनम् । चिन्ताया इति । अन्त्यवाक्येन व्यज्यमानाया इति भावः ।

 प्रसङ्गाच्छङ्कते-नन्विति । समाधत्ते-मैवमिति । स्वशब्दवाच्यावेव स्वशब्देनाभिधातुं शक्यावेव । चित्तवृत्तिष्वेवेति । रत्यादिचित्तवृत्तिचर्वणास्वेवे. त्यर्थः । किं न सह्यत इति । इष्ट एवेति भावः । तदाभासेति निर्दिष्टमाभासं निरू- पयति-यदा त्वित्यादि । विभावानुभावाविति । रसगङ्गाधरादौ विस्तृतमेतत् । विभावाभासादिति । विभावस्याभासेऽनुभावोऽप्याभासी भवति । शङ्कते-

    २३ ध्व०