पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

भूयस्तत्प्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया
तन्वङ्गया न तु पारितः स्तनभरः ऋष्टुं प्रियस्योरसः ॥

 अत्र हि प्रणयकोपस्योज्जिगमिषयैव यदवस्थानं न तु पारित इत्युदयावका शनि- राकरणात्तदेवास्वादजीवितम् । स्थितिः पुनरुदाहृता-तिष्टेत्कोपवशात्' इत्यादिना । क्वचित्तु व्यभिचारिणः प्रशमावस्थया प्रयुक्तश्चमत्कारः । यथोदाहृतं प्राक् 'एकस्मिन् शयने पराङ्मुखतया' इति । अयं तत्प्रशम इत्युक्तः । अत्र चेर्ष्याविप्रलम्भस्य रसस्यापि प्रशम इति शक्यं योजयितुम् । क्वचित्तु व्यभिचारिणः सन्धिरेव चर्वणा- स्पदम् । यथा-

ओसुरु सुम्ठि आइं महु चुम्बिउ जेण ।
अभिअरसघोण्टाणं पडि जाणिउ तेण ॥

 इत्यत्र श्रुत्युक्ते तु कोपे कोपकषायगद्गदमन्दरुदिताया येन मुखं चुम्बितं तेना- मृतरसनिगरणविश्रान्तिपरम्पराणां तृप्तिर्ज्ञातेति कोपप्रसादसन्धिश्चमत्कारस्थानम् ।

बालप्रिया

स्यापकर्षों वा। पुनरपि पुनस्तु । प्रारब्धुमङ्गीकृतं चिकीर्षितम् । भूयः तत् परिवर्तनम् । प्रकृतं प्रयत्नविषयीकृतम् । कृतं चेति । भूयस्तदित्यनयोरनुषङ्गः । शिथिलक्षिप्तैकदोर्लेखया पूर्व शिथिला शिथिलीकृता पश्चादन्यत्र क्षिप्ता च एक दोर्लेखा यया तथा सत्या। भूयः तत् परिवर्तनम् । कृतं च अनुष्टितं च । जाना- तीच्छति यतते चेष्टते इति क्रमोऽत्र प्रदर्शितः । न त्विति । तुशब्दो विशेषे । 'स्त- नभरः प्रियस्य उरसः क्रष्टुं न पारित' इति सम्बन्धः । प्रतीहारेन्दुराजेन काव्यालङ्कारः सङ्ग्रहव्याख्याने श्लोकोऽयं व्याख्यातः । उज्जिगमिषयव। उदयौन्मुख्यावस्थयैव । एवकारार्थ विवृणोति-न त्वित्यादि । इत्युक्त इति । पूर्वैरिति शेषः । स्वाभि- प्रायमाह-अत्रेत्यादि । ओसुरु इति ।

ईर्ष्याश्रुशोभिताया मुखं चुम्बितं येन ।
अमृतरसनिगरणानां तृप्तिर्ज्ञाता तेन ॥

 इति छायेति प्रतिभाति । निगरणानां भक्षणानां करणरूपार्थे षष्टी । यथा "नाग्निः तृप्यति काष्टाना मित्यादि । इत्यत्र श्रुत्युक्ते इति । ईर्श्याशब्देनोऽपी- त्यर्थः । 'अमृते त्यादेर्विवरणम्-अमृतरसेत्यादि । अमृतमेव रसविश्रान्तिः रस. विश्रमस्थानं तस्य । यद्वा-अमृतरसस्य विश्रान्तिपूर्वकाणि निगरणानि विश्रभ्य विश्रम्य निगरणानि । ज्ञातेत्यन्तेन वाच्यार्थकथनम् । कोपप्रसादसन्धिरिति । नायिकागतो ध्वन्यमान इति शेषः । मान