पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
द्वितीयोद्द्योतः


तत्र

रसभावतदाभासतत्पशान्त्यादिरक्रमः ।
ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ ३ ॥


लोचनम्

स्वार्थावित्यत्र यद्यपि निरूपितम् , तथापि रसवदाद्यलङ्कारप्रकाशनावकाशदाना- यानूदितम् । स च रसादिर्ध्वनिर्व्यवस्थित एव; न हि तच्छून्यं काव्यं किञ्चिदस्ति । यद्यपि च रसेनैव सर्वं जीवति काव्यम् , तथापि तस्य रसस्यैकघनचमत्कारात्मनोऽपि कुतश्चिदंशात्प्रयोजकीभूतादधिकोऽसौ चभत्कारो भवति । तत्र यदा कश्चिदुद्रिक्तावस्थां प्रतिपन्नो व्यभिचारी चमत्कारातिशयप्रयोजको भवति, तदा भावध्वनिः । यथा-

तिष्टेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः ।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोववर्तिनी
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥

 अत्र हि विप्रलम्भरससद्भावेऽपीयति वितर्काख्यव्यभिचारिचमत्क्रियाप्रयुक्त आ. स्वादातिशयः। व्यभिचारिण उदयस्थित्यपायत्रिधर्मकाः । यदाह-विविधमाभिमु- ख्येन चरन्तीति व्यभिचारिणः' इति । तत्रोदयावस्थाप्रयुक्तः कदाचित् । यथा-

याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया
निर्ध्यातं परिवर्तनं पुनरपि प्रारब्धुमङ्गीकृतम् ।

बालप्रिया

परिहरति-तथापीत्यादि । रसवदादीति । अङ्गिभावेन भासमान इत्युक्तावङ्गभा- वेन भाने कः प्रकार इति जिज्ञासायाः सम्भवादिति भावः । व्यवस्थित इति पदं व्या. चष्टे-स चेत्यादि । व्यवस्थित इति । सर्वत्र काव्ये स्थित इत्यर्थः । भावेत्यादिना निर्दिष्टं भावादिध्वनिं शङ्कापूर्वकं व्यवस्थापयति-यद्यपीत्यादि । तस्येति । काव्य- जीवितस्येत्यर्थः । 'रसस्य अंशादिति सम्बन्धः । रसाङ्गभूतादित्यर्थः

 तिष्ठेदिति । विक्रमोर्वशीये पुरूरवसो वचनम् । सा उर्वशी । कोपवशाद्धेतोः । प्रमाणान्तर्धान करणविद्यया पिहिता अन्तर्हिता । तिष्ठेदिति सम्भावनायां लिङ्। 'एतन्न युक्तं यत' इति शेषोऽत्र बोध्यः। एवमुत्तरत्रापि । स्वर्गाय स्वर्गं गन्तुम् । विबुधद्विषः असुराः । अगोचरम् अविषयत्वम् । विधिः प्रकारः । यदाहेति । विविधमित्यनेन त्रिप्रकारत्वमपि दर्शितमिति भावः । उदयावस्थाप्रयुक्त इति। उद. योन्मुख्यप्रयुक्त इत्यर्थः।

 यात इति। शय्यामनुप्राप्तयाप्रियेण सह शयानया तन्वङ्ग्या । गोत्र- स्य नाम्नो विपर्यये वनितान्तरनाम्नीत्यर्थः । श्रुतिपथं याते श्रुते सति । परि. वर्तनं निर्ध्यातं चिन्तितम् । प्रारब्धुमिति । परिवर्तनमित्यस्यानुषङ्गः। तदित्य-