पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
सटीकलोचनोपेतध्वन्यालोके


अत्र मत्तनिरहङ्कारशब्दौ ।

असंलक्ष्यक्रमोदयोतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ २ ॥

 मुख्यतया प्रकाशमानो व्यङ्गयोऽर्थो ध्वनेरात्मा । स च वाच्यार्था- पेक्षया कश्चिदलक्ष्यक्रमतया प्रकाशते, कश्चित्क्रमेणेति द्विधा मतः ।


लोचनम्

येणाह-मसंलक्ष्येति । सम्यङ् न लक्षयितुं शक्यः क्रमो यस्य तादृश उद्दयोत उद्: द्योतनव्यापारोऽस्येति बहुव्रीहिः । ध्वनिशब्दसांनिध्याद्विवक्षिताभिधेयत्वेनान्यपरत्व- मत्राक्षिप्तमिति स्वकण्ठेन नोक्तम् । ध्वनेरिति । व्यङ्गयस्येत्यर्थः । आत्मेति । पूर्व- श्लोकेन व्यङ्गयस्य वाच्यमुखेन भेद उक्तः । इदानीं तु द्योतनव्यापारमुखेन द्योत्यस्य स्वात्मनिष्ट एवेत्यर्थः । व्यङ्ग्यस्य ध्वनेर्द्योतने स्वात्ननि कः क्रम इत्याशझ्याह- वाच्यार्थापेक्षयेति । वाच्योऽर्थो विभावादिः ॥ २ ॥

 तत्रेति । तयोर्मध्यादित्यर्थः । यो रसादिरर्थः स एवाक्रमो ध्वनेरात्मा न त्वक्रम एव सः । क्रमत्वमपि हि तस्य कदाचिद्भवति । तदा चार्थशक्त्युद्भवानुस्वानरूपभेदतेति वक्ष्यते । आत्मशब्दः स्वभाववचनः प्रकारमाह। तेन रसादियोऽर्थः स ध्वनेरक्रमो नामभेदः । असंलक्ष्यक्रम इति यावत् । ननु किं सर्वदेव रसादिरर्थो ध्वनेः प्रकारः ? नेत्याह ; किं तु यदाङ्गित्वेन प्रधानत्वेनावभासमानः । एतच्च सामान्य लक्षणे 'गुणीकृत.

बालप्रिया

यस्येति कुतो नोक्तमित्यत आह-ध्वनिशब्देत्यादि । विवक्षिताभिधेत्वेनेति । विवक्षिताभिधेयत्वोक्त्येत्यर्थः । अत्रेति । अभिधेये इत्यर्थः । आक्षिप्तमिति । दर्शित- मित्यर्थः। विशेषमाह-पूर्वश्लोकेनेत्यादि । इदानीमिति । अस्मिन् श्लोके इत्यर्थः । स्वात्मनिष्ठ एवेति । भेद उक्त' इत्यस्यानुषङ्गः। वृत्तौ 'ध्वनेरात्मे त्यस्य विवर- णम्-'मुख्यातयेत्यादि । वाच्यार्थेत्यादिकमवतारयति-व्यङ्गयस्येत्यादि ॥२॥

 रसेत्यादिकारिकायामङ्गिभावेन भासमानो रसभावादिः अक्रमो ध्वनेरात्मा व्यव स्थित इत्यन्वयो वक्तव्यः । तथा च तथाविधरसभावादिसामान्यमसंलक्ष्यक्रम इत्यर्थः सिध्यति । स चार्थो बाधितः, क्वचिद्धावादेः संलक्ष्यक्रमत्वस्याप्यनीकृतत्वादतो विवक्षि- तमर्थं व्याचष्टे-यो रसादिरित्यादि । अक्रमः असंलक्ष्यक्रमः । न त्वक्रम एव स इति । रसभावादिरक्रम एव भवतोति तु नैवेत्यर्थः । कुत इत्यत्राह-क्रमेति । संलक्ष्यक्रमत्वमपीत्यर्थः । 'क्रमवत्त्वमिति च पाठः । तस्य भावादेः । वक्ष्यत इति । “एवंवादिनि देवर्षाविशत्यायुदाहरणपूर्वकं वक्ष्यत इत्यर्थः । अनिभावेन भासमान इत्यस्य विवरणम्-अङ्गित्वेनेत्यादि । एतदुक्तः पौनरुक्त्यमाशङ्कते-रतच्चेत्यादि ।